मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १, ऋक् ६

संहिता

यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ ।
तवेत्तत्स॒त्यम॑ङ्गिरः ॥

पदपाठः

यत् । अ॒ङ्ग । दा॒शुषे॑ । त्वम् । अग्ने॑ । भ॒द्रम् । क॒रि॒ष्यसि॑ ।
तव॑ । इत् । तत् । स॒त्यम् । अ॒ङ्गि॒रः॒ ॥

सायणभाष्यम्

अंगेत्यभिमुखीकरणार्थो निपातः । अंगाग्ने हे अग्ने त्वं दाशुषे हविर्दत्तवते यजमानाय तत्प्रीत्यर्थं यद्भद्रं वित्तगृहप्रजापशुरूपं कल्याणं करिष्यसि तद्भद्रं तवेत् तवैव । सुखहेतुरिति शेषः । हे अंगिरोऽग्ने एतच्च सत्यं न त्वत्र विसंवादोऽस्ति । यजमानस्य वित्तादिसंपत्तौ सत्यामुत्तरक्रत्वनुष्ठानेनाग्नेरेव सुखं भवति । भद्रशब्दार्थं शाट्यायनिनः समामनंति । यद्वै पुरुषस्य वित्तं तद्भद्रं गृहा भद्रं प्रजा भद्रं पशवो भद्रमिति । अंगशब्दस्य निपातत्वेऽपि । फि । ४-१२ । अभ्यादित्वादंतोदात्तत्वम् । दाश्वान् साह्वान् (पा ६-१-१२) इति सूत्रेण दाशृ दान इति धातोः क्वसुप्रत्ययो निपातितः । तत्र प्रत्ययस्वरः । आमंत्रितस्याग्नि शब्दस्य पदा त्परत्वेनाष्टमिकानुदात्तत्वम् (पा ८-१-१९) न शंकनीयम् । अपादादौ (पा ८-१-१८) इति पर्युदस्तत्वात् । ततः षाष्ठिकम् (पा ६-१-१९८) आद्युदात्तत्वमेव । भद्रशब्दस्य न ब्विषयत्वेन (फि २-३) आद्युदात्तत्वप्रसक्तावपि भदि कल्याण इति धातोरुपरि रक्प्रत्ययेन निपातनादंतोदात्तत्वम् । अस्मिन्वाक्ये यच्छब्दप्रयोगान्नि पातैर्यद्यदिहंत (पा ८-१-३०) इति निघाते प्रतिषिद्धे स्यप्रत्ययस्वरेण (पा ३-१-३३) सति शिष्टेन करिष्यसिशब्द उपांत्योदात्तः । तवेत्यत्र युष्मदस्मदोर्ङसि (पा ६-१-२११) इत्याद्युदात्तत्वम् । अंगिरा अंगाराः (नि ३-१७) इति यास्कः । ऐतरेयिणोऽपि प्रजापतिदुहितृध्यानोपाख्याने समामनंति । येंऽगारा आसंस्तेंऽगिरसोऽभवन् । ऐ ब्रा ३-३४ । इति । तस्मादंगिरोनामकमुनिकारणत्वादंगाररूपस्याग्नेरंगिरस्त्वम् । अत्रपदात्परत्वेनाष्टमिकानुदात्तत्वं ॥

अग्नीषोमप्रणयन उप त्वाग्न इत्यादिकोऽनुवचनीयस्तृचः । एतच्च ब्राह्मणे समाम्नातम् । उप त्वाग्ने दिवेदिव उप प्रियं पनिप्नतमिति तिस्रश्चैकां चान्वाह । ऐ ब्रा १-३० । इति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः