मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १, ऋक् ७

संहिता

उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् ।
नमो॒ भर॑न्त॒ एम॑सि ॥

पदपाठः

उप॑ । त्वा॒ । अ॒ग्ने॒ । दि॒वेऽदि॑वे । दोषा॑ऽवस्तः । धि॒या । व॒यम् ।
नमः॑ । भर॑न्तः । आ । इ॒म॒सि॒ ॥

सायणभाष्यम्

हे अग्ने वयमनुष्ठातारो दिवे दिवे प्रतिदिनं दोषावस्ता रात्रावहनि च धिया बुद्ध्या नमो भरंतो नमस्कारं संपादयंत उप समीपे त्वैमसि । त्वामागच्छामः । उपशब्दस्य निपातस्वरः । फि । ४-१२ । त्वामौ द्वितीयायाः । पा । ८-१-२३ । इति युष्मच्छब्दस्यानुदात्तस्त्वादेशः । दोषाशब्दो रात्रिवाची । वस्त इत्यहर्वाची । द्वंद्वसमासे कार्तकौजपादित्वात् (पा ६-२-३७) आद्युदात्तः । सावेकाचः (पा ६-१-१६८) इति धियो विभक्तिरुदात्ता । नम इति निपातः भरंत इत्यत्र शपः (पा ३-१-६८) पित्त्वाच्छतुर्लसार्वधातुकत्वाच्चानुदात्तत्वे सति (पा ६-१-१८६) धातुस्वरः शिष्यते । इमसीत्यत्रेदंतो मसिः (पा ७-१-४६) इत्यादेशो निघातश्च ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः