मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १, ऋक् ८

संहिता

राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् ।
वर्ध॑मानं॒ स्वे दमे॑ ॥

पदपाठः

राज॑न्तम् । अ॒ध्व॒राणा॑म् । गो॒पाम् । ऋ॒तस्य॑ । दीदि॑विम् ।
वर्ध॑मानम् । स्वे । दमे॑ ॥

सायणभाष्यम्

पूर्वमंत्रे त्वामुपैम इत्यग्निमुद्दिश्योक्तम् । कीदृशं त्वाम् । राजंतं दीप्यमानं अध्वराणां राक्षसकृतहिंसारहितानां यज्ञानां गोपां रक्षकं ऋतस्य सत्यस्यावश्यंभाविनः कर्मफलस्य दीदिवं पौनःपुन्येन भृशं वा द्योतकम् । आहुत्याधारमग्निं दृष्ट्वा शास्त्रप्रसिद्धं कर्मफलं स्मर्यते । स्वे दमे स्वकीयगृहे यज्ञशालायां हविर्भिर्वर्धमानं ॥ राजंतं वर्धमानमित्यत्रोभयत्र पूर्ववद्धातुस्वरः शिष्यते । दीदिविशब्दस्याभ्यस्तानामादिः (पा ६-१-१८९) इत्याद्युदात्तत्वम् । दमशब्दो वृषादिश्वात् । पा । ६-१-२०३ । आद्युदात्तः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः