मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १, ऋक् ९

संहिता

स नः॑ पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व ।
सच॑स्वा नः स्व॒स्तये॑ ॥

पदपाठः

सः । नः॒ । पि॒ताऽइ॑व । सू॒नवे॑ । अग्ने॑ । सु॒ऽउ॒पा॒य॒नः । भ॒व॒ ।
सच॑स्व । नः॒ । स्व॒स्तये॑ ॥

सायणभाष्यम्

हे अग्ने स त्वं नोऽस्मदर्थं सूपायनः शोभनप्राप्तियक्तो भव । तथा नोऽस्माकं स्वस्तये विनाशराहित्यार्थं सचस्व । समवेतो भव । तत्रोभयत्र दृष्टांतः । यथा सूनवे पुत्रार्थं पिता सुप्रापः प्रायेण समवेतो भवति तद्वत् । अस्मच्छब्दादेशस्य न इत्येतस्यानुदात्तं सर्वम् (पा ८-१-१८) इत्यनुदात्तत्वम् । चादयोऽनुदात्ताः (फि ४-१६) इतीवशब्दोऽनुदात्तः । इवेन नित्यसमासः । पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम् । पा २-१-४-२ । इति समस्तः पितेवेति शब्दो मध्योदात्तः । शोभनमुपायनं यस्येति बहुव्रीहौ नञ्सुभ्यामित्यंतो दात्तत्वं सचस्वेत्यत्र पदात्परत्वं नास्तीति न निघातः लसार्वधातुकानुदात्तत्वे सति धातुस्वरावशेषः ॥२॥ ॥ ९॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः