मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २, ऋक् ४

संहिता

इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम् ।
इन्द॑वो वामु॒शन्ति॒ हि ॥

पदपाठः

इन्द्र॑वायू॒ इति॑ । इ॒मे । सु॒ताः । उप॑ । प्रयः॑ऽभिः । आ । ग॒त॒म् ।
इन्द॑वः । वा॒म् । उ॒शन्ति॑ । हि ॥

सायणभाष्यम्

एतस्या ऋच ऐंद्रवायवग्रहे द्वितीयपुरोनुवाक्यारूपेण विशेषविनियोगः पूर्वमेवोक्तः । हे इंद्रवायू भवदर्थमिमे सोमाः सुताः । अभिषुताः । तस्माद्युवां प्रयोभिरन्नैरस्मभ्यं दातव्यैः सहोपा गतम् । अस्मत्समीपं प्रत्यागच्छतम् । हि यस्मादिंदवः सोमा वां युवामुशंति कामयंते तस्मादागमनमुचितम् । इंद्रवायूशब्दस्यामंत्रिताद्युदात्तत्वम् । प्रीणयंति भोक्तृनिति प्रयांस्यन्नानि । प्रीञ् धातोरंतर्भावितण्यर्थात् (पा ३-१-२६) असुन्प्रत्यये सति नित्स्वरः । गमिधातोर्लोण्मध्यमपुरुषद्विवचने बहुलं छंदसि । पा २-४-७३ इति शपो लुकि सत्यनुदात्तोपदेशेत्यादिना (पा ६-४-३७) मकारलोपः । ततो गतमिति भवति । उन्दी क्लेदन इति धातोरुंदेरिच्चादेः ॥ उ । १-१३ ॥ इत्युन्प्रत्ययः अद्यक्षरस्येकारादेशः । तत इंदुशब्दस्य नित्स्वरः । सोमरसस्य द्रवत्वात्क्लेदनं संभवति । युष्मच्छब्दादेशस्य वा मित्येतस्यानुदात्तं सर्वमपादादावित्यनुदात्तः । उशंतीत्यस्य निघाते हि च (पा ८-१-३४) इति सूत्रेण प्रतिषिद्धे सति प्रत्ययस्वरः । हि शब्दस्य निपातस्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः