मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २, ऋक् ६

संहिता

वाय॒विन्द्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तम् ।
म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥

पदपाठः

वायो॒ इति॑ । इन्द्रः॑ । च॒ । सु॒न्व॒तः । आ । या॒त॒म् । उप॑ । निः॒ऽकृ॒तम् ।
म॒क्षु । इ॒त्था । धि॒या । न॒रा॒ ॥

सायणभाष्यम्

हे वायो त्वमिंद्रश्च सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य निष्कृतं संस्कृतं संस्कर्तारं वा सोममुपा यातम् । आगच्छतम् । नरा हेनरौ पुरुषौ पौरुषेण सामर्थ्येनोपेतौ युवरोरागतयोश्च सतोर्धियामुना कर्मणा मक्षु त्वरया संस्कारः संपत्स्यते । इत्था सत्यं ॥ वायो इत्यस्यामंत्रितस्येति षाष्ठिक माद्युदात्तत्वम् । इंद्रशब्द ऋज्रेंद्रेत्यादिना । उ । २-२८ । रन्प्रत्ययांतत्वेन निपातितो ञ्नत्यादिर्नित्यम् (पा ६-१-१९७) इत्याद्युदात्तः । चशब्दश्चादयोऽनुदात्ताः । फि । ४-१६ । इत्यनुदात्तः । सुन्वत इत्यत्र शतुरनुमो नद्यजादी (पा ६-१-१७३) इति विभक्तेरुदात्तत्वम् । निरत्येष समित्येतस्य स्थाने । नि १२-७ । इति यास्कः । कृतशब्द आदिकर्मणि कर्तरि क्तः (पा ३-४-७१) संस्कर्तुं प्रवृत्त इत्यर्थः । कुगतिप्रादयः (पा २-२-१८) इति समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वे प्राप्ते थाथघञ्क्ताजबित्रकाणाम् (पा ६-२-१४४) इत्यंतोदात्तः । गतिरनंतरः (पा ६-२-४९) इति तु निस उदात्तत्वं न भवति । तद्धि कर्मणि क्ते विहितम् (पा ६-२-४८) निष्करोतीति निष्कृदिति क्विबंतव्याख्याने तु गतिकारकोपपदात्कृत् (पा ६-२-१३९) इत्यृकार उदात्तः स्यात् । धिया । सावेकाचस्तृतीयादिः (पा ६-१-१६८) इति विभक्तिरुदात्ता । नरा । सुपां सुलुगित्यादिना संबोधनाद्विवचनस्य डादेशः । पदात्परत्वादामंत्रितस्येत्याष्टमिको निघातः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः