मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् २, ऋक् ८

संहिता

ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा ।
क्रतुं॑ बृ॒हन्त॑माशाथे ॥

पदपाठः

ऋ॒तेन॑ । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॒ऽवृ॒धौ॒ । ऋ॒त॒ऽस्पृ॒शा॒ ।
क्रतु॑म् । बृ॒हन्त॑म् । आ॒शा॒थे॒ इति॑ ॥

सायणभाष्यम्

हे मित्रावरुणौ युवां क्रतुं प्रवर्तमानमिमं सोमायागमाशाथे आनशाथे । व्याप्तवंतौ । केन निमित्तेन । ऋतेन अवश्यंभावितया सत्येन फलेन अस्मभ्यं फलं दातुमित्यर्थः । कीदृशौ युवाम् । ऋतावृधौ । ऋतमित्युदकनाम (नि २-२५) सत्यं वा यज्ञं वा (नि ४-१९) इति यास्कः । उदकादीनामन्यतमस्य वर्धयितारौ । अत एव ऋतस्पृसा उदकादीन् स्पृशंतौ । कीदृशं क्रतुम् । बृहंतं अंगैरूपांगैश्चातिप्रौढम् । ऋतशब्दो घृतादित्वादंतोदात्तः । मित्रावरुणावित्यत्र मित्रश्च वरुणश्चेति मित्रावरुणौ । देवताद्वंद्वे च (पा ६-३-२६) इति पूर्वपदस्यानङादेशः । ऋतस्य वर्धयितारावित्यर्थेंऽतर्भावितण्यर्थाद्वृधेः क्विप् । अन्येषामपि दृश्यते (पा ६-३-१३७) इति पूर्वपदस्य दीर्घः । ऋतस्पृशा । सुपां सुलुगिति डादेशः । मित्रावरुणावित्याद्यामंत्रितत्रयस्य स्वस्वपूर्वपदात्परत्वादामंत्रितस्येत्याष्टमिको निघातः । ननु ऋतेनेत्येतस्य सुबामंत्रिते परांगवत्स्वरे (पा २-१-२) इति नियमात् । इह च ऋतेन मित्रावरुणावित्यनयोराशाथे इत्याख्यातेनैवान्वयेन परस्परमसामर्थ्यात् । यत्र पुनः परस्परान्वयेन सामर्थ्यं तत्र परांगवद्भावात्पादादेराद्युदात्तत्वं भवत्येव । यथा मरुतां पितस्तदहं गृणामीति । मृग्रोरुतिः । उ । १ । ९६ । इत्युतिप्रत्ययांतत्वेन पृश्नियै वै पयसो मरुतो जाताः । तै । सम् । २-२-११-४ । इत्यादावंतोदात्तोऽपि हि मरुच्छब्दो मरुतां पितरित्यत्र सामर्थ्यात्परांगवद्भावादेवाद्युदात्तो जातः । प्रकृते त्वृ तेनेत्यस्यासामर्थ्यादेव न परांगवद्भाव इति । ऋतावृधावित्यत्र द्वितीयामंत्रितस्य निघाते कर्तव्य आमंत्रितं पूर्वमविद्यमानवत् (पा ८-१-७२) इति प्रथमामंत्रितेनाविद्यमानवद्भवितव्यमिति चेत् भवतु । अत एव तस्याव्यवधायकत्वादृतेनेति प्रथमपदात्परत्वेनैव द्वितीयामंत्रितं निहनिष्यते । यथा । इमं मे गंगे यमुने । ऋग्वे । १०-७५-५ । इत्यादौ गंगेशब्दस्याविद्यमानवद्भावेऽपि तस्याव्यवधायकत्वादेव म इत्येतदेव पदमुपजीव्य यमुनेशब्दस्य निघातः । किंच प्रकृते मित्रावरुणावित्यामंत्रितं सामान्य वचनम् । तस्य विशेषणतया विशेषवचनमृतावृधाविति । अतो नामंत्रिते समानाधिकरणे सामान्यवचनम् (पा ८-१-७३) इति पूर्वस्याविद्यमानवद्भावप्रतिषेधादपि निरंतरायो द्वितीयस्य निघातः । नन्वेवमप्यपादादावित्यनुवृत्तेर्ऋतावृ धेत्यस्य द्वितीयपादादित्वान्न भवितव्यं निघातेन । अत एव हीमं मे गंग इत्यत्र शुतुद्रिपदस्य पदात्परस्यामंत्रितस्यापि पादादित्वादेवानिघातादाद्युदात्तत्वं जातम् । तद्वदत्रापि भवितव्यं वक्तव्यो वा विशेष इति । उच्यते । मित्रावरुणपदस्य सुबामंत्रित इति परांगवद्भावेन परानुप्रवेशादेव ऋतावृधेत्यस्य न पादादित्यम् । शुतुद्रिपदमपि तर्ह्येवमेव पूर्वस्य सरस्वतिपदस्य परांगवद्भावेन न पादादिरिति निहन्येतेति चेत्न । परांगवद्भावस्तावत्सुबंतमामंत्रितं चाश्रित्य प्रवृत्तेः पदविधिः । अतस्तयोः सत्येव परस्परान्वये परांगवद्भावेन भवितव्यम् । समर्थः पदविधिरिति नियमात् । शुतुद्रिसरस्वतिपदयोश्च न परस्परेणान्वयः । किं तु सचतेत्य नेनेत्य सामार्थ्यान्न परांगवद्भावः । प्रकृते तु मित्रावरुणावृतावृधाविति द्वयोरपि सामानाधिकरण्येन परस्परान्वयादस्ति सामर्थ्यमिति भवितव्यं परांगवद्भावेन । यथा मरुतां पितरित्यत्रेति विषेशः ॥ नन्वत एव तर्हि मित्रावरुणपदस्य परांगवद्भावेन पादादित्वादपादादाविति पर्युदासादामंत्रितनिघातो न स्यादिति चेन्न । पूर्वं सुबंतं परं चामंत्रित माश्रित्य यः स्वरः प्रवर्तते तत्र सुबामंत्रित इति परांगवद्भावः । भवति चैवंविध ऋतावृधपदनिघात इति । तत्र पूर्वस्य परांगवद्भावेनापादादित्वात्स प्रवर्तते । मित्रावरुणपदनिघातस्तु पूर्वमेव पदमुपजीवति न परमामंत्रितमिति न परांगवद्भावः । ननु परांगवद्भाववन्निघातोऽपि पदविधिरिति । ऋतेनेत्यनेनासामर्थ्यात्ततः पदात्परस्य मित्रावरुणपदस्य न स्यादिति चेन्न । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः । पा २-१-१-११ । इति निघाते पदविधावपि समानवाक्य त्वमेव पर्याप्तं न परांगवद्भाववत्परस्परान्वयोऽपीत्यलम् । क्रतुम् । कृञः कतुः (उ १-७८) प्रत्यय स्वरेणादिरुदात्तः । आशाथे । आनशाथे । छंदसि लुङ् लङ् लिटः (पा ३-४-६) इति वर्तमाने लिट् । नुडभावश्छांदसः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः