मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३, ऋक् ३

संहिता

दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः ।
आ या॑तं रुद्रवर्तनी ॥

पदपाठः

दस्रा॑ । यु॒वाक॑वः । सु॒ताः । नास॑त्या । वृ॒क्तऽब॑र्हिषः ।
आ । या॒त॒म् । रु॒द्र॒व॒र्त॒नी॒ इति॑ रुद्रऽवर्तनी ॥

सायणभाष्यम्

अत्राश्विनेत्यनुवर्तते । हे अश्विनावा यातं अस्मिन्कर्मण्यागच्छतम् । किमर्थमिति तदुच्यते । सुता युष्मदर्थं सोमा अभिषुताः । तान् स्वीकर्तुमिति शेषः । कीदृशावश्विनौ । दस्रा दस्रौ शत्रूणामुपक्षपयितारौ । यद्वा । देववैद्यत्वेन रोगाणामुपक्षपयितारौ । अश्विनौ वै देवानां भिषजौ । ऐ ब्रा १-१८ । इति श्रुतेः । नासत्या । असत्यमनृतभाषणम् । तद्रहितौ । अत्र यास्कः । सत्यावेव नासत्यावित्यौर्णवाभः । सत्यस्य प्रणेतारावित्याग्रायणः (नि ६-१३) इति । रुद्रवर्तनी । रुद्रशब्दस्य रोदनं प्रवृत्तिनिमित्तम् । यदरोदीत्तद्रुद्रस्य रुद्रत्वमिति तैत्तिरीयाः । तद्यद्रोदयंति तस्माद्रुद्रा इति वाजसनेयिनः । रुद्राणां शत्रुरोदनकारिणां शूरभटानां वर्तनिर्मार्गो धाटीरूपो ययोस्तौ रुद्रवर्तनी । यथा शूरा धाटीमुखेन शत्रून् रोदयंति तद्वदेतावित्यर्थः । युवाकव इत्यभिषुतसोमानां विशेषणम् । वसतीवरीभिरेकधनाभिश्चाद्भिर्मिश्रिता इत्यर्थः । वृक्तबर्हिषः । वृक्तानि मूलैर्वर्जितानि बर्हींष्यास्तरणरूपाणि येषां सोमानां ते वृत्तबर्हिषः । यद्वा । भरता इत्यादिष्वष्टस्वृत्विङ्नामसु वृक्तबर्हिष इति । तदानीं तृतीयार्थे प्रथमा । ऋत्विग्भरभिषुता इत्यन्वयः ॥ दस्रा । आमंत्रितस्येत्याद्युदात्तः । युवाकवः । यु मिश्रणे । युवंति मिश्रीभवंति वसतीवरीप्रभृतिभिः श्रयणद्रव्यैरिति युवाकवः । कटकुष्यादि ष्वगणितस्यापि यौतेर्बहुलग्रहणात् (उ ३-७७) काकुप्रत्ययः । तस्य कित्वेन गुणाभावादुवङादेशः । प्रत्ययस्वरेणाकार उदात्तः । न विद्यतेऽसत्यमनयोरिति नासत्यौ । नभ्राण्नपान्नवेदा नासत्येत्यादिना ॥ पा । ६-३-७५ । प्रकृतिवद्भावान्नञो नलोपाभावः । पादादित्वेनानिघातादामंत्रिताद्युदात्तत्वम् । वृक्तबर्हिषः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण क्तप्रत्ययस्वर एव शिष्यते । आ इत्यत्रोपसर्गाश्चाभिवर्जम् (फि ४-१३) इत्युदात्तः । रुद्रवर्तनी । आमंत्रितस्य चेत्यामंत्रितनिघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः