मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३, ऋक् ४

संहिता

इन्द्रा या॑हि चित्रभानो सु॒ता इ॒मे त्वा॒यवः॑ ।
अण्वी॑भि॒स्तना॑ पू॒तासः॑ ॥

पदपाठः

इन्द्र॑ । आ । या॒हि॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । सु॒ताः । इ॒मे । त्वा॒ऽयवः॑ ।
अण्वी॑भिः । तना॑ । पू॒तासः॑ ॥

सायणभाष्यम्

चित्रभानो चित्रदीप्ते हे इंद्रास्मिन्कर्मण्या याहि । आगच्छ । सुता अभिषुता इमे सोमास्त्वायवस्त्वां कामयमाना वर्तंते । अण्वीभिः । अग्रुव इत्यादिषु द्वाविंशतिसंख्याकेष्टंगुलिनामस्वण्य्व इति पठितम् । ऋत्विजामंगुलिभिः सुता इत्यन्वयः । किंच । एते सोमास्तना नित्यं पूतासः पूता शुद्धा दशापवित्रेण बहुधा शोधितत्वात् । इंद्रशब्दं यास्को बहुधा निर्वक्ति । इंद्र इरां दृणातीति वेरां ददातीति वेरां दधातीति वेरां दारयतीति वेरां धारयतीति वेंदवे द्रवतीति वेंदौ रमत इति वेंद्धे भूतानीति वा तद्यदेनं प्राणैः समैंधंस्तदिंद्रस्येंद्रत्वमिति विज्ञायत इदंकरणादित्याग्रायण इदं दर्शनादित्यौपमन्यव इदंतेर्वैश्वर्यकर्मण इञ्छत्रूणां दारयिता वा द्रावयिता वादरयिता च यज्वनाम् । नि १०-८ । इति । अस्यायमर्थः । दृ विदारण इति धातुः । इरामन्नमुद्दिश्य तन्निष्पादकजलसिद्ध्यर्थं दृणाति मेघं विदीर्णं करोतीतींद्रः । डुदाञ् दान इति धातुः इरामन्नं वृष्टिनिष्पादनेन ददातीतींद्रः धाञ् षोषणार्थः । इरामन्नं तृप्तिकारणं सस्यं दधाति जलप्रदानेन पुष्णातीतींद्रः । इरामुत्पादयितुं कर्षकमुखेन भूमिं विदारयतीतींद्रः । पूर्वोक्तपोषणमुखेनेरां धारयति विनाशराहित्येन स्थापयतीतींद्रः । इंदुः सोमो वल्लीरसः । तदर्थं यागभूमौ द्रवति धावतीतींद्रः । इंदौ यथोक्ते सोमे रमते क्रीडतीतींद्रः ञिइंधी दीप्ताविति धातुः । भूतानि प्राणिदेहानिंद्धे जीवचैतन्य रूपेणांतः प्रविश्य दीपयतीतींद्रः । एतदेवाभिप्रेत्य वाजसनेयिन आमनंति । इंधो ह वै नामैष योऽयं दक्षिणेऽक्षन्पुरुषः । तं वा एतमिंधं संतमिंद्र इत्याचक्षते । परोक्षेण परोक्षप्रिया । इव हि देवाः प्रत्यक्षद्विषः शत ब्रा १४-६-१०-२ । इति । तद्यदित्यादिकं ब्राह्मणांतरवाक्यम् । तत्तत्रेंद्रविषये निर्वचनमुच्यत इति शेषः । यद्यस्मात्कारणादेनं परमात्मरूपमिंद्रं देवं पाणैर्वाक्चक्षुरादींद्रियैः प्राणापानादिवायुभिश्च सहितं समैंधन्नु पासका ध्यानेन सम्यक् प्रकाशितवंतस्तत्तस्मात्कारणादिंद्रनाम संपन्नं - अस्मिन्पक्ष इध्यते दीप्यत इति कर्मणि व्युत्पत्तिः । आग्रायणनामको मुनिरिदंकरणादिंद्र इति निर्वचनं मन्यते । इंद्रो हि परमात्मरूपेणेदं जगत्करोति । औप । मन्यवनामको मुनिरिदंदर्शनादिंद्र इति निर्वचनमाह । इदमित्यापरोक्ष्यमुच्यते । विवेकेन हि परमात्मानमापरोक्ष्येण पश्यति । एतदेवाभिप्रेत्यारण्यकांडे समाम्ना यते स एतमेव पुरुषं ब्रह्म ततममपश्य दिदमदर्शमिती३ । तस्मादिदंद्रो नामेदंद्रो ह वै नाम तमिदंद्रं संतमिंद्र इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः ऐ आ । २-४-३ । इति । इदि परमैश्वर्य इति धातुः । स्वमायया जगद्रूपत्वं परमैश्वर्यम् । तद्योगादिंद्रः । अनेनाभिप्रायेण श्रूयते । इंद्रो मायाभिः पुरुरूपॆ ईयते ऋग्वे ६-४७-१८ । इति इनशब्दस्येश्वरवाचकस्याकारलोपे सति नकारांतमिन्निति पदं भवति । दृ भय इति धातुः । स च परमेश्वर शत्रूणां दारयित्वा भीषयितेतींद्रः । द्रुगताविति धातुः । शत्रूणां द्रावयित्वा पलायनं प्रापयितेतींद्रः । यज्वनां यागानुष्ठायिनामादरयिता भयस्य परिहर्ता । एवमेतानि निर्वचनानि द्रष्टव्यानीति । इंद्रेत्यत्रामंत्रिताद्युत्तत्वम् । आ इत्यत्र निपात त्वेनाद्युदात्तः । चित्रभानो । पदात्परत्वादामंत्रितनिघातः । त्वामिच्छंतीत्यर्थे युष्मच्छब्दात्सुप आत्मनः क्यच् । पा सू ३-१-८ । प्रत्ययोत्तरपदयोश्च पा ७-२-९८ । इति मपर्यंतस्य त्वादेशः । क्याच्छंदसि (पा ३-२-१७०) इति क्यजंतादुप्रत्ययः त्वत्यइति प्राप्तौ युष्मदस्मदोरनादेशे पा ७-२-८६ । इत्यविभक्ताववि हलादौ व्यत्यये नात्वम् । उकारः प्रत्ययस्वरेणाद्युदात्तः । अणुशब्दः सौक्ष्म्य वाचकस्तद्योगात्प्रकृतेऽगुलीषु वर्तते । वोतो गुणवचनात् । पा ४-१-४४ ॥ इति ङीषि प्राप्ति व्यत्ययेन ङीन् । नित्वादाद्युदात्तः । तना इत्ययं निपातो नित्यमित्यर्थे निपातत्वादाद्युदात्तः । पूतासः । आज्जसेरसुक् (पा ७-१-५०) इत्यसुक् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः