मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३, ऋक् ५

संहिता

इन्द्रा या॑हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः ।
उप॒ ब्रह्मा॑णि वा॒घतः॑ ॥

पदपाठः

इन्द्र॑ । आ । या॒हि॒ । धि॒या । इ॒षि॒तः । विप्र॑ऽजूतः । सु॒तऽव॑तः ।
उप॑ । ब्रह्मा॑णि । वा॒घतः॑ ॥

सायणभाष्यम्

हे इंद्र त्वमा याहि । अस्मिन्कर्मण्यागच्छ । किमर्थम् । वाघत ऋत्विजो ब्रह्माणि वेदरूपाणि स्तोत्राण्युपैतुम् । कीदृशस्त्वम् । धियास्मदीयया प्रज्ञयेषितः प्राप्तः । अस्मद्भक्त्या प्रेरित इत्यर्थः । विप्रजूतः । यथा यजमानभक्त्या प्रेरितस्तथान्यैरपि विप्रैर्मेधाविभिर्ऋत्विग्भिः प्रेरितः । कीदशस्य वाघतः । सुतावतः अभिषुतसोमयुक्तस्य ॥ केत इत्यादिष्वेकादशसु प्रज्ञानामसु धीरिति पठितम् । चतुर्विंशतिसंख्याकेषु मेधाविनामसु विप्रो धीर इति पठितम् । भरता इत्यादिष्वष्टस्वृत्विङ्नामसु वाघत इति पठितम् । इषित इत्यत्रेष गतावित्यस्मान्निष्ठायामिडागमः । आगमा अनुदात्तः । म । ३-१-३-७ । इतीटोऽनुदात्तत्वात् क्तस्वरः शिष्यते । विप्रजूतः । डुवप् बीजतंतुसंतान इति धातोर्ऋज्रेंद्राग्रवज्रविप्रेत्यादिना । उ २ । २८ । रन्प्रत्ययांतो विप्रशब्दो निपातितः । निपातनादपधाया इकारो लघूपधगुणाभावश्च । नित्वादाद्युदात्तः । तैर्जूतः । प्राप्तः । जू इति सौत्रो धातुर्गत्यर्थः । श्य्रुकः किति (पा ७-२-११) इतीट् प्रतिषेधः । तृतीया कर्मणि (पा ६-२-४८) इति पूर्वपदप्रकृतिस्वरत्वम् । सुतावतः । छांदसं दीर्घत्वम् । मतुपोऽनुदात्तत्वात् क्तप्रत्ययस्वर एव शिष्यते । ब्रह्माणि । नब्विषयस्यानिसंतस्येत्याद्युदात्तः । वाघच्छब्द ऋत्विङ्नामसु पठितः प्रातिपदिकस्वरः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः