मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३, ऋक् ६

संहिता

इन्द्रा या॑हि॒ तूतु॑जान॒ उप॒ ब्रह्मा॑णि हरिवः ।
सु॒ते द॑धिष्व न॒श्चनः॑ ॥

पदपाठः

इन्द्र॑ । आ । या॒हि॒ । तूतु॑जानः । उप॑ । ब्रह्मा॑णि । ह॒रि॒ऽवः॒ ।
सु॒ते । द॒धि॒ष्व॒ । नः॒ । चनः॑ ॥

सायणभाष्यम्

हरिशब्द इंद्रसंबंधिनोरश्वयोर्नामधेयम् । हरी इंद्रस्य रोहितोऽग्नेरिति तदीयाश्वनामत्वेन पठितत्वात् । हे हरिवः अश्वयुक्तेंद्र त्वं ब्रह्माण्युपैतुमा याहि । कीदृशस्त्वम् । तूतुजानः त्वरमाणः । आगत्य चास्मिन्सुते सोमाभिषवयुक्ते कर्मणि नोऽस्मदीयं चनोऽन्नं हविर्लक्षणं दधिष्ट धारय । स्वीकुर्वित्यर्थः । तूतुजानः । तुजेर्लिट लिटः कानज्वा (पा ३-२-१०६) इति कानजादेशः । तुजादीनां दीर्घोऽभ्यासस्य (पा ६-१-७) इत्यभ्यासस्य दीर्घत्वम् । अभ्यस्तानामादिः पा ६-१-१८९ । इत्याद्युदात्तत्वम् । हरिव इत्यत्र हरयोऽस्य संतीति मतुपि छंदसीरः (पा ८-२-१५) इति मकारस्य वत्वम् । संबुद्धावुगिदचाम् (पा ७-१-७०) इति नुम् । संयोगांतलोपे (पा ८-२-२३) नकारस्य मतुवसो रुः संबुद्धौ छंदसि (पा ८-३-१) इति रुत्वम् । अष्टमिको निघातः । ब्रह्माणीत्यस्य हरिव इत्यनेनासामर्थ्यात्सवर्थः पदविधिरिति नियमात्सुबामंत्रितपरांगवद्भावाभावेनामंत्रितनिघाताभावादाद्युदात्तत्वे सत्युपेत्यकारस्य सन्नतरः । दधिष्वेत्यत्र दधातेर्लोट थास् । थासः से (पा ३-४-८०) सवाभ्यां वामौ (पा ३-४-९१) इत्येकारस्य वादेशः छंदस्युभयथा (पा ३-४-११७) इति सार्वधातुकार्धधातुकसंज्ञयोः सत्योः सार्वधातुकत्वेन शपि (पा ३-१-६८) तस्य श्लौ च द्विर्भावः पा ६-१-१० । अर्धर्धातुकत्वेनेडागमश्च (पा ७-२-३५) आतो लोप इट च (पा ६-४-६४) इत्याकारलोपः । चनः । चायतेरन्ने ह्रस्वश्च (उ ४-१९९) इत्यसुनंतः । चकारान्नुडागमे यलोपः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः