मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३, ऋक् ७

संहिता

ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त ।
दा॒श्वांसो॑ दा॒शुषः॑ सु॒तम् ॥

पदपाठः

ओमा॑सः । च॒र्ष॒णि॒ऽधृ॒तः॒ । विश्वे॑ । दे॒वा॒सः॒ । आ । ग॒त॒ ।
दा॒श्वांसः॑ । दा॒शुषः॑ । सु॒तम् ॥

सायणभाष्यम्

हे विश्वे देवास एतन्नामका देवविशेषा दाशुषो हविर्दत्तवतो यजमानस्य सुतमभिषुतं सोमं प्रत्या गत । आगच्छत । ते च देवा ओमासो रक्षकाः चर्षणीधृतो मनुष्याणां धारका दाश्वांसः फलस्य दातारः मनुष्य इत्यादिषु पंचविंशतिसंख्याकेषु मनुष्यनामसु चर्षणिशब्दः पठितः । अश्विनावित्यादिष्वेकत्रिंसत्संख्याकेषु देवविशेषनामसु विश्वे देवाः साध्या इति पठितम् । एतामृचं यास्क एवं व्याख्यातवान् । अवितारो वावनीया वा मनुष्यधृतः सर्वे च देवा इहागच्छत दत्तवंतो दत्तवतः सुतमिति तदेतदेकमेव वैश्वदेवं गायत्रं तृचं दशतयीषु विद्यते यत्तु किंचिद्बहुदैवतं तद्वैश्वदेवानां स्थाने युज्यते यदेव विश्वलिंगमिति शाकपूणिः । नि १२-४० । इति । अत्र विश्वशब्दः सर्वशब्दपर्याय इति यास्कस्य मतम् । देवविशेषस्यैवासाधारणं लिंगमिति शाकपूणेर्मतम् । अवंतीत्योमासो देवाः । मन्नित्यनुवृत्तावविसिविसिशुषिभ्यः कित् (उ १-१४५) इति मन्प्रत्ययः । ज्वरत्वरस्रिव्यविमवामुपधायाश्च (पा ६-४-२०) इत्यूट् । मनः कित्त्वेऽपि बाहुलकत्वाद्गुणः । आज्जसेरसुक् (पा ७-१-५०) इति जसेरसुगागमः । आमंत्रिताद्युदात्तत्वम् । चर्षणयो मनुष्याः । तान्वृष्टिदानादिना धारयंतीति चर्षणीधृतो देवाः । पूर्वस्यामंत्रितस्य सामान्यवचनस्य विभाषितं विशेषवचने बहुवचनम् (पा ८-१-७४) इत्यविद्यमानवत्त्वप्रतिषेधादपादादित्वेन निघातः । नन्वत एव विद्यमानवत्त्वात्सुबामंत्रित इति परांगवत्त्वेनैकपदीभावात्पदादपरत्वेन कथं निघात इति चेन्न । वत्करणं स्वाश्रयमपि यथा स्यात् (म ८-१-७२) इति वचनात्पदभेदप्रयुक्तस्य निघातस्याप्युपपत्तेः । ऐकपद्येऽप्याद्युदात्तत्त्वेऽनुदात्तं पदमेकवर्जमिति सुतरामेव निघातो भविष्यति । इत्थमेव तर्हि द्रवत्पाणी शुभस्पती इत्यत्रापि परांगवत्त्वेनैकपद्यादुत्तरस्य शेषनिघातप्रसंग इति चेन्न । तत्र परांगवद्भावस्य परेणामंत्रितं पूर्वमविद्यमानवदित्यविद्यमानवद्भावेन बाधितत्वात् । इह पुनर्विभाषितं विशेषवचने बहुवचनमित्यविद्यमानवत्त्वस्व नीषेधात् । पूर्वस्याप्यामंत्रितस्य विद्यमानवत्त्वात्परांगवत्त्वं स्वीकृतमिति वैषम्यं ॥ विश्वे । पादादित्वादाद्युदात्तः । गणदेवतावचनश्चात्र विश्वशब्दो न सर्वशब्दपर्याय इति विशेष्यपरतया सामान्यवचनत्वादोमास इत्यनेन न सामानाधिकरण्यम् । सामानाधिकरण्ये हि पूर्वस्य पादस्य परांगवद्भावे सति मित्रावरुणावृतावृधावित्यादाविवात्राप्यामंत्रिताद्युदात्तता न स्यात् । विश्व इत्यस्य विशेषणं देवास इति । दीव्यंतीति देवाः प्रकाशवंतः । नन्ववयवप्रसिद्धेः समुदायप्रसिद्धर्बलीयसी । परी ९८ । इति रूढ एवार्थो देवशब्दस्य ग्राह्यो न यौगिकः । यौगिकत्वे ह्यवयवार्थानुसंधानव्य वधानेन प्रतिपत्तिर्विक्षिप्ता स्यात् । समुदायप्रसिद्धौ तु न विक्षेप इति चेन्न । समुदाय प्रसिद्धौ हि देवशब्दस्य सामान्यपरतया विशेषवचनत्वाभावादिभाषितं विशेषवचने बहुवचनमित्यनेनानिषिद्धत्वाद्विश्वे इत्यस्याविद्य मानवत्त्वेन शुभस्पती इति पदवद्देवास इत्यस्याप्याद्युदात्तत्त्वं स्यात् । स्वरानुसारेण च रूढित्यागेनापि देवशब्दस्य योगस्वीकारो युक्त एव । आ गत । आगच्छत । बहुलं छंदसीति शपो लुकि सत्यनुदात्तोपदेशेत्यादिना मकारलोपः । अङः पदात्परत्वान्निघातः । द्वाश्वांसः । दाशृदान इत्यस्य क्वसौ दार्श्वान् साह्वान् मीढ्वांश्च (पा ६-१-१२) इति निपातनात्क्रादिनियमप्राप्त इडागमो द्विर्वचनं च (पा ७-२-१३) न भवति । प्रत्ययस्वरेण क्वसोरुदात्तत्वं दाशुष इत्यत्र वसोः संप्रसारणम् (पा ६-४-१३१) इति संप्रसारणम् । संप्रसारणाच्च (पा ६-१-१०८) इति पूर्वरूपत्वम् । आदेशप्रत्यययोः (पा ८-३-५९) इति षत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः