मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३, ऋक् ८

संहिता

विश्वे॑ दे॒वासो॑ अ॒प्तुरः॑ सु॒तमा ग॑न्त॒ तूर्ण॑यः ।
उ॒स्रा इ॑व॒ स्वस॑राणि ॥

पदपाठः

विश्वे॑ । दे॒वासः॑ । अ॒प्ऽतुरः॑ । सु॒तम् । आ । ग॒न्त॒ । तूर्ण॑यः ।
उ॒स्राःऽइ॑व । स्वस॑राणि ॥

सायणभाष्यम्

विश्वे देवास एतन्नामकगणरूपा देवविशेषाः सुतं सोममा गंत । आगच्छंतु । कीदृशाः । अप्तुरः । तत्तत्काले वृष्टिप्रदा इत्यर्थः । तूर्णयः त्वरा युक्ताः । यजमानमनुग्रहीतुमालस्य रहिता इत्यर्थः विश्वेषां देवानां सोमं प्रत्यागमन उस्रा इत्यादिर्दृष्टांतः । उस्राः सूर्यरश्मयः स्वसराण्यहानि प्रत्यालस्य रहिता यथा समागच्छंति तद्वत् । खेदय इत्यादिषु पंचदशसु रश्मिनामसूस्रावसव इति पठितम् । वस्तोरित्यादिषु द्वादशस्वहर्नामसु स्वसराणि घ्रंसो घर्म इति पठितम् । तच्छ पदं यास्केन व्याख्यातम् । स्वसराण्यहानि भवंति स्वयंसारीण्यपि वा स्वरादित्यो भवति स एतानि सारयति । उस्रा इव स्वसराणीत्यपि निगमो भवति (नि ५-४) इति । देवासः । पचाद्यजंतश्चित्त्वादंतोदात्तः (पा ३-१-१३४) अप्तुरः तुर त्वरणे श्लुविकरणी । तुतुरिति त्वरयंतीत्यर्थे क्विप्चेति क्विप् । गतिकारकोपपदात्कृदित्युत्तरपदप्रकृतिस्वरत्वम् । आ गंत । आगच्छंत्वित्यर्थे व्यत्ययेन मध्यमपुरुषबहुवचनम् । बहुलं छंदसीति शपो लुक् । तस्य तप्तनप्तनथनाश्च (पा ७-१-४५) इति तबादेशेऽपित् (पा १-२-४) इति प्रतिषेधादङित्वादनुनासिकलोपाभावः । तिङ्ङतिङ इति निघातः । ञित्वरा संभ्रम इति धातोस्त्वरंत इति तूर्णयः । नित्त्वादाद्युदात्तः । उस्रा इवेत्यत्रेवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च । पा २-१-४-२ । इति समासे पूर्वपदप्रकृतिस्वरत्वं नित्यम् । सरतीति सरः सूर्यः । पचाद्यच् । स्वः सरो येषां तानि स्वसराण्यहानि । बहुव्रीहौ प्रकृत्या पूर्वपदमिति स्वशब्द आद्युदात्तः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः