मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३, ऋक् ९

संहिता

विश्वे॑ दे॒वासो॑ अ॒स्रिध॒ एहि॑मायासो अ॒द्रुहः॑ ।
मेधं॑ जुषन्त॒ वह्न॑यः ॥

पदपाठः

विश्वे॑ । दे॒वासः॑ । अ॒स्रिधः॑ । एहि॑ऽमायासः । अ॒द्रुहः॑ ।
मेध॑म् । जु॒ष॒न्त॒ । वह्न॑यः ॥

सायणभाष्यम्

विश्वेदेवास एतन्नामका देवविशेषा मेधं हविर्यज्ञ संबद्धं जुषंत । सेवंताम् । कीदृशाः । अस्रिधः क्षयरहिताः शोषरहिता वा एहिमायासः सर्वतो व्याप्तप्रज्ञाः । यद्वा । सौचीकमग्निमप्सु प्रविष्टमेहि मा यासीरिति यदवोचन् तदनुकरणहेतुकोऽयं विश्वेषां देवानां व्यपदेश एहिमायास इति । अद्रुहो द्रोहरहिताः वह्नयो वोढारो धनानां प्रापयितारः ॥ अस्रिधः । स्रिधेः क्षयार्थस्य शोषणार्थस्य शोषणार्थस्य वा संपदादिभ्यो भावे क्विपि । पा ३-३-१०८-९ । नञा बहुव्रीहिः । पूर्वपदप्रकृतिस्वरं बाधित्वा नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । एहिमायासः । ईह चेष्टायाम् । आ संमतादीहत इत्येहि । इन् (उ ४-११७) इति सर्वधातुसाधारण इन्प्रत्ययो नित्त्वादाद्युदात्तः । एहिर्माया प्रज्ञा येषामिति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं अथवा । अङ उदात्तादुत्तरस्येहीति लोण्मध्यमैकवचनस्य तिङ्ङतिङ इति निघात एकादेश उदात्तेनोदात्त इत्येकार उदात्तः । एहीत्येतत्पदयुक्तं मा यासीरित्यत्र मायेत्यक्षरद्वयं येषां त एहिमायासः । पूर्वपदप्रकृतिस्वरः । अद्रुहः । द्रुह जिघांसायाम् । संपदादित्वाद्भावे क्विपि बहुव्रीहौ नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । मेधम् । मेधृसंगमे च । मेध्यते देवैः संगम्यत इति मेधं हविः । कर्मणि घञ् । ञित्वादाद्युदात्तः । जुषंत सेवंतामित्यर्थे छंदसि । लुङ् लङ् लटः (पा ३-४-६) इति धातुसंबंधे लङ् । यत उक्तरूपा विश्वेदेवा अतो जुषंतेति द्रुहादिधात्वर्थैः संबंधात् । बहुलं छंदस्यमाङ् योगेऽपि (पा ६-४-७५) इत्यडागमाभावः । वह्नयः । निरत्यनुवृत्तौ वहिश्रीत्यादिना विहितस्य निप्रत्ययस्य नित्त्वादाद्युदात्तत्वं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः