मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३, ऋक् १०

संहिता

पा॒व॒का न॒ः सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ।
य॒ज्ञं व॑ष्टु धि॒याव॑सुः ॥

पदपाठः

पा॒व॒का । नः॒ । सर॑स्वती । वाजे॑भिः । वा॒जिनी॑ऽवती ।
य॒ज्ञम् । व॒ष्टु॒ । धि॒याऽव॑सुः ॥

सायणभाष्यम्

सारस्वते तृचे या प्रथमा सान्वारंभणीयेष्टौ सरस्वत्याः पुरोनुवाक्या । तथा दर्शपूर्णमासावारप्स्यमान इत्यस्मिन्खंडे पावका नः सरस्वती पावीरवी कन्या चित्रायुः (आ २-८) इति सूत्रितं ॥

सरस्वती देवी वाजेभिर्हविर्लक्षणैरन्नैर्निमित्तभूतैः । यद्वा । यजमानेभ्यो दातव्यैरन्नैर्निमित्तभूतैः । नोऽस्मदीयं यज्ञं वष्टु । कामयताम् । कामयित्वा च निर्वहत्वित्यर्थः । तथा चारण्य ककांडे श्रुत्यैव व्याख्यातम् । यज्ञं वष्ट्विति यदाह यज्ञं वहत्वित्येव तदाह । ऐ आ १-१-४ । इति । कीदृशी सरस्वती । पावका शोध यित्री वाजिनीवत्यन्नवत्क्रियावती धियावसुः कर्मप्राप्यधननिमित्तभूता । वाग्देवता यास्तथाविधं धननिमित्तत्वमारण्य ककांडे श्रुत्या व्याख्यातम् । यज्ञं वष्टु धियावसुरि ति वाग्वै धियावसुः । ऐ आ १-१-४ । इति । श्येनः सोम इत्यादिषु पंचत्रिंशत्संख्याकेषु देवताविशेषवाचिषु पदेषु सरमा सरस्वतीति पठितम् । एतामृचं यास्क ऎवं व्याचष्टे । पावका नः सरस्वत्यन्नैरन्नवती यज्ञं वष्टु धियावसुः कर्मवसुः । नि ११-२६ । इति ॥ पवनं पा वः शुद्धिः । पावं कायतीति पावका । कै गै रै शब्दे । आतोऽनु पसर्गे कः (पा ३-२-३) इति कप्रत्ययः कृदुत्तरपदप्रकृतिस्वरत्वेनांतोदात्तत्वम् । यद्वा । पुनातीत्यर्थे ण्वुलि प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः (पा ७-३-४४) इतीत्वस्याभावोंऽतोदात्तत्वं च छांदसं द्रष्टव्यम् । सरःशब्दः सर्तेरसुनंतत्वादाद्युदात्तः । मतुप् ङीपोः पित्त्वादनुदात्तत्वम् । वाजेभिः । वाजशब्दो वृषादित्वादाद्युदात्तः । स ह्यवृत्कृतत्वादाकृतिगणः । वाजोऽन्नमास्विति वाजिन्यः क्रियाः । अत इनिठनौ (पा ५-२-११५) इतीनिप्रत्ययः । ताः क्रिया यस्याः संति सा सरस्वती वाजिनीवती । छंदसीर इति मतुपो वत्वम् । मतुप्ङीपोः पित्त्वेनानदात्तत्वादिनेः प्रत्ययाद्युदात्तत्वमेव शिष्यते । यज्ञं यजयाचेत्यादिना (पा ३-३-९०) नङ् प्रत्ययः । प्रत्ययस्वरेणांतोदात्तः । वष्टु । वश कांतौ । कांतिरभिलाषः । आदिप्रभृतिभ्यः शप इति शपो लुक् । निघातः । धियावसुः । धिया कर्मणा वसु यस्याः सकाशाद्भवति सा धियावसुः । सावेकाच इति विभक्तिरुदात्ता । बहुव्रीहौ प्रकृत्या पूर्वपदमिति विभक्तिस्वर एव शिष्यते । छांदसस्तृतीयाया अलुक् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः