चो॒द॒यि॒त्री सू॒नृता॑नां॒ चेत॑न्ती सुमती॒नाम् ।
य॒ज्ञं द॑धे॒ सर॑स्वती ॥
चो॒द॒यि॒त्री । सू॒नृता॑नाम् । चेत॑न्ती । सु॒ऽम॒ती॒नाम् ।
य॒ज्ञम् । द॒धे॒ । सर॑स्वती ॥
या सरस्वती सेयमिमं यज्ञं दधे । धारितवती । कीदृशी । सूनृतानां प्रियाणां सत्यवाक्यानां चोजयित्री प्रेरयिती । सुमतीनां शोभनबुद्धियुक्तानामनुष्ठातृणां चेतंती । तदीयमनुष्ठेयं ज्ञापयंती ॥ चोदयित्री । चुद प्रेरणे । ण्यंतात्तृच् । चित्त्वादंतोदात्तः । ऋन्नेभ्यो ङीप् (पा ४-१-५) इति ङीप् । तस्योदात्तयणो हल्पूर्वात् (पा ६-१-१७४) इत्युदात्तत्वम् । सूनृतानाम् । ऊन परिहाण इत्यतः क्वप्चेति क्विपि सुतरामूलनयत्यप्रिहयमिति सूनिति प्रियमुच्यते । तच्च तदृतं सत्यं चेति सूनृतम् । परादिश्चंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । बेतंती । चिती संज्ञाने । अत्र शपो ङीपश्च पित्त्वादनुदात्तत्वं शतुश्चादुपदेशाल्लसार्वधातुकस्परेणानुदात्तत्वम् । धात्वंतस्वर एव शिष्यते । सुमतिशब्दस्य मतुपि ह्रस्वत्वान्नामन्यतरस्याम् (पा ६-१-१७७) इति विभक्तेरुदात्तत्वं ॥ ११ ॥