मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ३, ऋक् १२

संहिता

म॒हो अर्ण॒ः सर॑स्वती॒ प्र चे॑तयति के॒तुना॑ ।
धियो॒ विश्वा॒ वि रा॑जति ॥

पदपाठः

म॒हः । अर्णः॑ । सर॑स्वती । प्र । चे॒त॒य॒ति॒ । के॒तुना॑ ।
धियः॑ । विश्वाः॑ । वि । रा॒ज॒ति॒ ॥

सायणभाष्यम्

द्विविधा हि सरस्वती विग्रहवद्देवता नदीरूपा च । तत्र पूर्वाभ्यामृग्भ्यां विग्रहवती प्रतिपादिता । अनया तु नदीरूपा प्रतिपाद्यते । तादृशी सरस्वती केतुना कर्मणा प्रवाहरूपेण महो अर्णः प्रभूतमुदकं प्र चेतयति । प्रकर्षेण ज्ञापयति । किंच । स्वकीयेन देवतारूपेण विश्वा धियः सर्वाण्यनुष्ठातृप्रज्ञानानि विराजति । विशेषेण दीपयति । अनुष्ठानविषया बुद्धीः सर्वदोत्पादयतीत्यर्थः । सरस्वत्या द्विरूपत्वं यास्को दर्शयति । तत्र सरस्वतीत्येतस्य नदीवद्देवतावच्च निगमा भवंति (नि २-२३) इति । एकशतसंख्याकेषूदकनामस्वर्णः क्षोद इति पठितम् । एतामृचं यास्को व्याचष्ट । महदर्णः सरस्वती प्रचेतयति प्रज्ञापयति केतुना कर्मणा प्रज्ञया वेमानि च सर्वाणि प्रज्ञानान्यभिविराजति । नि ११ । २७ । इति ॥ महो अर्णः । महदिति तकारस्य व्यत्ययेन सकारः । तस्य रुत्वोत्वगुणाः । प्रातिपदिकस्वरेणांतोदात्तः । एङः पदांतादिति पा ६-१-१०९ । इति पूर्वरूपे प्राप्ते प्रकृत्यांतःपादमव्यपरे । पा । ६-१-११५ । इति प्रकृतिभावः । अर्तीत्यर्णः । उदके नुट् च (उ ४-१९६) इत्यसुन्प्रत्ययो नुडागमश्च । केतुना । प्रातिपदिकस्वरेणांतोदात्तः । विश्वाः । विश्वशब्दः क्वन्प्रत्ययांत आद्युदात्तः ॥ ६ ॥ १ ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः