मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४, ऋक् १

संहिता

सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑ ।
जु॒हू॒मसि॒ द्यवि॑द्यवि ॥

पदपाठः

सु॒रू॒प॒ऽकृ॒त्नुम् । ऊ॒तये॑ । सु॒दुघा॑म्ऽइव । गो॒ऽदुहे॑ ।
जु॒हू॒मसि॑ । द्यवि॑ऽद्यवि ॥

सायणभाष्यम्

सुरूपकृत्नुं शोभनरूपोपेतस्य कर्मणः कर्तारमिंद्रमूतयेऽस्मद्रक्षार्थं द्यवि द्यवि प्रतिदिनं जुहूमसि । आह्वयामः । आह्वाने दृष्टांतः । गोदुहे गोदुगर्थं सुदुघामिव सुष्टु दोग्ध्रीं गामिव । यथा लोके गोर्यो दोग्धा तदर्थं तस्याभिमुखेन दोहनीयां गामाह्वयति तद्वत् । वस्तोरित्यादिषु द्वादशस्वहर्नामसु द्यविद्यवीति पठितम् । सुरूपकृत्नुम् । करोतीति कृत्नुः । कृहनिभ्यां क्नुः (उ ३-३०) कित्वाद्गुणाभावः । तकारोपजनश्छांदसः । समासांतो दात्तः । ऊतये । अवतेर्धातोरुदात्त इत्यनुवृत्तावूतियूतिजूतिसातिहेतिकीर्तयश्च । पा । ३-३-९७ । इति क्तिन्नुदात्तो निपातितः । सुदुघाम् । सुष्टुदुग्ध इति सुदुघा । दुहः कब्घश्च (पा ३-२-७०) इति कप्प्रत्ययो हकारस्य च घकारः । कित्त्वाद्गुणाभावः । कपः पित्त्वादनुदात्तत्वे धातुस्वरेणोकार उदात्तः । सुशब्देन गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन स एव स्वरः । इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं चेतीवसमासे स एव स्वरः । गां दोग्धीति गोधुक् । सुत्सूद्विषेत्यादिना (पा ३-२-६१) क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । जुहूमसि । हूयतेर्लडुत्तमपुरुषबहुवचने बहुलं छंदसीति शपः श्लुः ॥ पा पा २-४-७६ । अभ्यस्तस्य च (पा ६-१-३३) इत्यभ्यस्तकारणस्य हूयतेः प्रागेव द्विर्वचनात्संप्रसारणम् । संप्रसारणाच्च (पा ६-१-१०८) इति परपूर्वत्वम् । हलः (पा ६-४-२) इति दीर्घः । ततः श्लाविति द्विर्वचनम् । अभ्यासस्य ह्रस्वः (पा ७-४-५९) चुत्वजश्त्वे (पा ७-४-६२) ८-४-५३ । इदंतो मसिः (पा ७-१-४६) इतीकारागमः । प्रत्ययस्वरेण मकारस्योदात्तत्वम् । द्यवि द्यवि । द्योशब्दः प्रातिपदिकस्वरेणांतोदात्तः । नित्यवीप्सयोः पा ८-१-४ । इति द्विर्भावः तस्य परमाम्रेडितम् (पा ८-१-२) अनुदात्तं च (पा ८-१-३) इति द्वितीयस्यानुदात्तत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः