मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४, ऋक् २

संहिता

उप॑ न॒ः सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब ।
गो॒दा इद्रे॒वतो॒ मदः॑ ॥

पदपाठः

उप॑ । नः॒ । सव॑ना । आ । ग॒हि॒ । सोम॑स्य । सो॒म॒ऽपाः॒ । पि॒ब॒ ।
गो॒ऽदाः । इत् । रे॒वतः॑ । मदः॑ ॥

सायणभाष्यम्

हे सोमपाः सोमस्य पातरिंद्र सोमं पातुं नोऽस्मदीयानि सवनात्रीणि सवनानि प्रत्युप समीप आगहि । आगच्छ । आगत्य च सोमस्य सोमं पिब । रेवतो धनवतस्तव मदो हर्षो गोदा इद्गोप्रद एव । त्वयि हृष्टे सत्यस्माभिर्गावो लभ्यंत इत्यर्थः ॥ उप । निपातत्वादाद्युदात्तः । सवना । सूयते सोम एष्विति सवनानि । अधिकरणे ल्युट् (पा ३-३-११७) सुपो डादेशष्टिलोपश्च । लितीशि प्रत्ययात्पूर्वस्याकारस्योदात्तत्वम् । गहि । गमेर्बहुलं छंदसीति शपो लुक् । हेर्ङीत्त्वादनुदात्तोपदेशेत्यादिना (पा ६-४-३७) मकारलोपः । अतो हेः (पा ६-४-१०५) इत्याभाच्छास्त्रीये लुति कर्तव्येऽसिद्धवदत्राभात् (पा ६-४-२२) इत्याभाच्छास्त्रीयो मकारलोपोऽसिद्धवद्भवति । सोमपाः । आमंत्रितस्य चेति निघातः । तस्याविद्यमानवत्त्वेऽपि पूर्वापेक्षया तिङ्ङतिङ इति पिबेत्यस्य निघातः । न च पूर्वस्यापि परांगवद्भावेनाविद्यमानवत्त्वम् । असामर्थ्येन तदभावात् । गां ददातीति गोदाः । क्विप्च (पा ३-२-७६) इति क्विपं परमपि सरूपं बाधित्वा प्रतिपदविधित्वादातो मनिन्क्वनिब्वनिपश्च (पा ३-२-७४) इति विच् । क्विपि हि घमास्थेत्यादिना पा ६-४-६६ । धातोराकारस्येत्वं स्यात् । रेवान् । रयिर्धनमस्यास्तीति मतुप् । ह्रस्वनुड्भ्यां मतुप् (पा ६-१-१७६) इति मतबुदात्तः । छंदसीरः (पा ८-२-१५) इति वत्वम् । रयेर्मतौ बहुलं छंदसि । पा ६-१-३७-६ । इति संप्रसारणपरपूर्वत्वे गुणश्च । मदः । मदोऽनुपसर्गे (पा ३-३-६७) इत्यप् । पित्त्वादनुदात्तः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः