मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४, ऋक् ६

संहिता

उ॒त नः॑ सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑ ।
स्यामेदिन्द्र॑स्य॒ शर्म॑णि ॥

पदपाठः

उ॒त । नः॒ । सु॒भगा॑न् । अ॒रिः । वो॒चेयुः॑ । द॒स्म॒ । कृ॒ष्टयः॑ ।
स्याम॑ । इत् । इन्द्र॑स्य । शर्म॑णि ॥

सायणभाष्यम्

हे दस्म शत्रूणामुपक्षपयितरिंद्र त्वदनुग्रहादरिरुत शत्रवोऽपि नोऽस्मान् सुभगान् शोभनधनोपेतान्वोचेयुः । उच्यासुः । कृष्टयो मनुष्या अस्मन्मित्रभूता वदंतीति किमु वक्तव्यमिति शेषः । ततो धनसंपन्ना वयमिंद्रस्य शर्मणींद्रप्रसादलब्धे सुखे स्यामेश् । भवेमैव । मघमित्यादिष्वष्टाविंशतिसंख्याकेषु धननामसु रयिः क्षत्रं भग इति पठितम् । मनुष्या इत्यादिषु पंचविंशतिसंख्याकेषु मनुष्यनामसु कृष्टय इति पठितं ॥ उत ॥ एवमादीनामंतः । फि ४-१४ इत्यंतोदात्तः । सुभगान् । भगशब्दस्य क्रत्वादिषु पाठान्न ञ् सुभ्यामित्युत्तरपदांतोदात्तत्वं बाधित्वा क्रत्वादयश्च ॥ पा ६-२-११८ । इत्युत्तरपदाद्युदात्तत्वम् । संहितायां दीर्घादटि समानपादे (पा ८-३-९) इति नकारस्य रुत्वम् । भोभगो (पा ८-३-१७) इति यत्वम् । लोपः शाकल्यस्य (पा ८-३-१९) इति यलोपः तस्यासिद्धवत्त्वान्न पुनः संधिकार्यम् । आतोऽट नित्यम् (पा ८-३-३) इत्याकारस्य सानुनासिकता । अरिः । वचनव्यत्ययः । अच इः (उ ४-१३८) इतीप्रत्ययांतः । प्रत्ययस्वरेणांतोदात्तः वोचेयुः । उच्यासुः । वच परिभाषण इत्यस्माधाशीर्लिज् झेर्जुसादेशे (पा ३-४-१०८) लिङ्याशिष्यङ् (पा ३-१-८६) इत्यङ् प्रत्यये वच उम् (पा ७-४-२०) इत्युमागमः । गुणः । किदाशिषि (पा ३-४-१०४) इति यासुट् । छंदस्युभयथा (पा ३-४-११७) इति लङादेशस्य सार्वधातुकत्वाल्लिङः सलोपोऽनंत्यस्य (पा ७-२-७९) इति सकारलोपः । अतो येयः पा ७-२-८० । आद्गुणः (पा ६-१-७२) अङोऽदुपदेशत्वाल्लसार्वधातुकस्वरेण लिङोऽनुदात्तत्वम् । अङ् प्रत्ययस्वर एव शिष्यते । तेन सहेकारस्य गुण एकादेश उदात्तेनोदात्त इत्युदात्तः । दस्म । दसु उपक्षय इत्यस्मादंतर्भावितण्य र्थादिषियुधींधिदशिस्याधूसूभ्यो मक् ! उ १-१४४ । पदात्परत्वादामंत्रितनिघातः । कृष्टयः । क्तिच् क्तौ च संज्ञायाम् (पा ३-३-१७४) इति क्तिचि मनुष्यनामत्वाच्चित इत्यंतोदात्तः । स्याम । अस भुवि । श्नसोरल्लोपः (पा ६-४-१११) यासुट उदात्तत्वम् । पादादित्वादनिघातः । शर्मणि । शृ हिंसायां हिनस्ति दुःखमिति शर्म । अन्येभ्योऽपि दृश्यंते (पा ३-२-७५) इति मनिन् । नेड्वति कृति (पा ७-२-८) इतीट् प्रतिषेधः । नित्त्वादाद्युदात्तत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः