मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ४, ऋक् ७

संहिता

एमा॒शुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नम् ।
प॒त॒यन्म॑न्द॒यत्स॑खम् ॥

पदपाठः

आ । ई॒म् । आ॒शुम् । आ॒शवे॑ । भ॒र॒ । य॒ज्ञ॒ऽश्रिय॑म् । नृ॒ऽमाद॑नम् ।
प॒त॒यत् । म॒न्द॒यत्ऽस॑खम् ॥

सायणभाष्यम्

ईमिति निपात इदंशब्दार्थे वर्तते । हे यजमानाशवे कृत्स्नसोमयागव्याप्तायेंद्रायेमा भर । इमं सोममाहर । कीदृशं सोमम् । आशुं सवनत्रयव्याप्तं यज्ञ श्रियं यज्ञस्य संपद्रूपं नृमादनं नृणामृत्विग्यजमानानां हर्षहेतुं पतयत्पतयंतं कर्माणि प्राप्नुवंतं मंदयत्सखम् । य इंद्रो मंदयति यजमानान् हर्षयति तस्मिन्निंद्रे सखिभूतोऽयं सोमः । तत्प्रीतिहेतुत्वात्तृप्तिहेतुत्वाद्वा ॥ आशुम् । कृवापाजिमिस्वदिसाधृशूभ्य उण् (उ १-१) इत्युण् । प्रत्ययस्वरः । आशवे । पूर्ववत् । यज्ञश्रियम् । समासस्येत्यंतोदात्त्यः माद्यंतेऽनेनेति मादनः । करणाधिकरणयोश्च (पा ३-३-११७) इति ल्युट् । तस । लित्त्वात्पूर्व आकार उदात्तः । गतिकारकोपपदात्कृदिति स एव शिष्यते । पतयत् । पतेरदंतस्य चौरादिको णिच् (पा ३-१-२५) अतो लोपः (पा ६-४-४८) तस्य स्थानिवत्त्वादुपधाया वृद्ध्यभावः (पा ७-२-११६) १-१-५६ । लटः शत्रादेशः तस्य छंदस्युभयथेत्यार्धधातुकत्वेन शबभावाददुपदेशात् (पा ६-१-१८६) इति निघाताभावेन प्रत्ययाद्युदात्तत्वमेव भवति । आर्धधातुकत्वेऽपि सर्वे विधयश्चंदसि विकल्प्यंते । परि ३५ । इति णेरनिट (पा ६-४-५१) इति णिलोपाभावः । सुपां सुलुगित्यमोलुक् । न लुमता (पा १-१-६३) इति प्रत्ययलक्षणनिषेधादुगिदचाम् । ७-१-७० । इति न नुम् । एवं मंदयच्छब्धोंतोदात्तः । मंदयतींद्रे सखा । सप्तमीति योगविभागत्समासः । तत्पुरषे तुल्यार्थेति सप्तमीपूर्वपदप्रकृतिस्वरत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः