मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५, ऋक् १

संहिता

आ त्वेता॒ नि षी॑द॒तेन्द्र॑म॒भि प्र गा॑यत ।
सखा॑य॒ः स्तोम॑वाहसः ॥

पदपाठः

आ । तु । आ । इ॒त॒ । नि । सी॒द॒त॒ । इन्द्र॑म् । अ॒भि । प्र । गा॒य॒त॒ ।
सखा॑यः । स्तोम॑ऽवाहसः ॥

सायणभाष्यम्

तुशब्दः क्षिप्रार्थो निपातः । द्वाभ्यामाङ् भ्यामन्वेतुमितशब्दोऽभ्यसनीयः । हे सखाय ऋत्विजः क्षिप्रमस्मिन्कर्मण्यागच्छतागच्छत । आदरार्थोऽभ्यासः । आगत्य च निषीदत । उपविशत । उपविश्य चेंद्रमभि प्र गायत । सर्वतः प्रकर्षेण स्तुतः । कीदृशाः सखायः । स्तोमवाहसः । त्रिवृत्पंचदशादिस्तोमानस्मिन्कर्मणि वहंति प्रापयंतीति ॥ आ तु आ निपातत्वादाद्युदात्ताः । इत । इण् गतौ । द्व्यचोऽतस्तिङः (पा ६-३-१३५) इति संहितायां दीर्घत्वम् । नि । निपातत्वादाद्युदात्तः । सीदत । पाघ्राध्मास्थाम्नादाण् दृशीत्यादिना (पा ७-३-७८) सदेः सीदादेशः । सदेरप्रतेः (पा ८-३-६६) इति संहितायां षत्वम् । अभि । उपसर्गाश्चाभिवर्जमिति वचनात्प्रातिपदिकांतोदात्तत्वम् । स्तोमवाहसः । अर्तिस्तुसुहुसृधृक्षिक्षुभायावापदियक्षिणीभ्यो मन् (उ १-१३९) इति स्तौतेर्मन्प्रत्ययांतः स्तोमशब्दो नित्त्वादाद्युदात्तः । स्तोमं वहंतीति स्तोमवाहसः । वहिहाधाञ् भ्यश्छंदसि (उ ४-२२०) इत्यसुन्प्रत्ययः । तत्र णिदित्यनुवृत्तेरत उपधायाः । पा । ७-२-११६ । इत्युपधाया वृधिः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च (उ ४-२२६) इत्यौणादिकसूत्रात्समास अद्युदात्तः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः