मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५, ऋक् २

संहिता

पु॒रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णाम् ।
इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥

पदपाठः

पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । ईशा॑नम् । वार्या॑णाम् ।
इन्द्र॑म् । सोमे॑ । सचा॑ । सु॒ते ॥

सायणभाष्यम्

सखायोऽभिप्रगायतेति पदद्वयमत्रानुवर्तते । हे सखाय ऋत्विजः सचा यूयं सर्वैः सह । यद्वा । सचा परस्परसमवायेन सुतेऽभिषुते सोमे प्रवृत्ते सतींद्रमभिप्रगायत । कीदृशमिंद्रम् । पुरूतमम् । पुरून्बहूञ्छत्रूंस्तमयति ग्लापयतीति पुरूतमः । पुरूणां बहूनां वार्याणां वरणीयानां धनानामीशानं स्वामिनं ॥ पुरूतमम् । तमु ग्लान इति धातोरंतभार्वितण्यर्थात्पचाद्यचि चित्त्वादंतोदात्तेऽपि कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । पुरूणाम् । पृ पालनपूरणयोरित्यस्मात् कुरित्यनुवृत्तौ पृभिदिव्यधिगृधिधैषिदृशिभ्यः (उ १-२४) इति कुप्रत्ययः । कित्त्वाद्गुणनिषेधे । पा । १-१-५ । उदोष्ठ्यपूर्वस्य (पा ७-१-१०२) इत्युकारः । उरण् रपरः । पा १-१-५१ प्रत्ययस्वरेणांतोदात्तः पुरुशब्दः । अतो मतुपि ह्रस्वादंतोदात्तात्पुरुशब्दात्परस्य नामो नामन्यतरस्याम् (पा ६-१-१७७) इत्यंतोदात्तत्वम् । ईशानम् । ईश ऐश्वर्य इति धातोरनुदात्तेत्त्वात्परस्य शानचो लसार्वधातुकानुदात्तत्वम् । वार्याणाम् । वृङ् संभक्तावित्यस्मादृहलोर्ण्यत् (पा ३-१-१२४) क्यब्विधौ हि वृञ एव ग्रहणं न वृङः । पा ३-१-१०९-१ । तित्स्वरितम् (पा ६-१-१८५) इति प्रत्ययस्वरितं बाधित्वा ईडवंदवृशंसदुहां ण्यतः (पा ६-१-२१४) इति ण्यदंतस्याद्युदात्तत्वम् । यतोऽनावः (पा ६-१-२१३) इत्यत्र तु ण्यतो ग्रहणं न भवति तस्य द्व्यनुबंधकत्वात् । एकानुबंधग्रहणे न द्व्यनुबंधकस्येति नियमात् । सचा । षच समवाये धात्वादेः षः सः (पा ६-१-६४) संपदादित्वाद्भावे क्विप् । पा ३-३-१०८-९ । इति क्विप् । तृतीयैकवचनम् । धातुस्वरेणाद्युदात्तः । सर्वे विधयश्चंदसि विकल्प्यंते । परि ३५ । इति न्यायेन सावेकाच इति सूत्रं न प्रवर्तते । सचेत्यस्य निपातत्वपक्षे स्पष्टमाद्युदात्तत्वं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः