मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५, ऋक् ३

संहिता

स घा॑ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं॑ध्याम् ।
गम॒द्वाजे॑भि॒रा स नः॑ ॥

पदपाठः

सः । घ॒ । नः॒ । योगे॑ । आ । भु॒व॒त् । सः । रा॒ये । सः । पुर॑म्ऽध्याम् ।
गम॑त् । वाजे॑भिः । आ । सः । नः॒ ॥

सायणभाष्यम्

घशब्दोऽवधारणार्थो निपातः सर्वैस्तच्छब्दैः संबध्यते । स घ स एवेंद्रः पूर्वमंत्रोक्तगुणविशिष्टो नोऽस्माकं योगे पूर्वमप्राप्तस्य पुरुषार्थस्य संबंध आ भुवत् । आभवतु । पुरुषार्थं साधयत्वित्यर्थः । स एव राये धनार्थमा भुवत् । आभवतु । स एव पुरंध्यां योषित्या भुवत् । यद्वा बहुविधायां बुद्धावा भुवत् । पुरंदिर्बहुधीः (नि ६-१३) इति यास्कः । स एव वाचेभिर्देयैरन्नेः सह नोऽस्माना गमत् । आगच्छतु ॥ घ । चादयोऽनुदात्ता इत्यनुदात्तः । संहितायामृचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् (पा ६-३-१३३) इति दीर्घः । योगे । घञो इित्त्वादाद्युदात्तत्वम् । भुवत् । भूयात् । भवतेराशीर्लिङि परतो लिङ्याशिष्यङित्यङ्प्रत्ययः । तस्य ङित्वेन गुणाभावादुवङादेशः । कीदाशिषीति यासुण्न भवत्यनित्यमागमशासनमिति वचनात् । तिङ्ङतिङ इति निघातः । ऊडिदंपदाद्यप्पुम्रैद्युभ्य इति राय इत्येतस्य विभक्तेरुदात्तत्वम् । पुरंध्याम् । पुरंधिः पुरुधीः । पृषोदरादित्वात् पा ६-३-१०९ । उकारस्यामादेश ईकारस्य ह्रस्वश्च । आद्युदात्तप्रकरणे दिवोदासादीनां छंदस्युपसंख्यानम् । पा ६-२-९१-१ । इत्याद्युदात्तत्वम् । अथवा पुरं शरीरं धीयतेऽस्यामिति कर्मण्यधिकरणे च (पा ३-३-९३) इति कि प्रत्ययः । अलुक् छांदसः । नब्विषयस्यानिसंतस्येति पुरुशब्द आद्युदात्तः । दासीभारादित्वात् (पा ६-२-४२) पूर्वपदप्रकृतिस्वरत्वम् । गमत् । गमेर्लेटस्तिप् । इतश्च लोपः । परस्मैपदेष्वितीकारलोपः । बहुलं छंदसीति शपो लुक् । लेटोऽडाटावित्यडागमः । आगमा अनुदात्ताः । म ३-१-३-७ । इति तस्यानुदात्तत्वे धातुस्वर एव शिष्यते । वाजेभिः । वृषादित्वादाद्युदात्तः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः