मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५, ऋक् ४

संहिता

यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः ।
तस्मा॒ इन्द्रा॑य गायत ॥

पदपाठः

यस्य॑ । स॒म्ऽस्थे । न । वृ॒ण्वते॑ । हरी॒ इति॑ । स॒मत्ऽसु॑ । शत्र॑वः ।
तस्मै॑ । इन्द्रा॑य । गा॒य॒त॒ ॥

सायणभाष्यम्

समत्सु युद्देषु यस्येंद्रस्य संस्थे रथे युक्तौ हरी द्वावश्चौ शत्रवो न वृण्वते न संभजंते । रथमश्वौ च दृष्ट्वा पलायंत इत्यर्थः । तस्मा इंद्राय तत्संतोषार्थं हे ऋत्विजो गायत । स्तुतिं कुरुत । रण इत्यादिषु षट्चत्वारिंशत्सु संग्रामनामसु समत्सु समरण इति पठितं ॥ संस्थे । सम्यक् । तिष्ठतीति संस्थो रथः । आतश्चोपसर्गे (पा ३-१-१३६) इति कप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । वृण्वते । प्रत्ययस्वरेणाकार उदात्तः । सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः । पा ६-१-१५८-९ । तिङ्ङतिङ इति निघातो न भवति यद्वृत्तान्नित्यमिति प्रतिषेधात् । पंचमीनिर्देशेऽपि (पा १-१-६७) अत्र व्यवहितेऽपि कार्यमिष्यते । हरतो रथमिति हरी अश्वौ । इन्नित्यनुवृत्तौ हृपिषिरुहिवृतिविदिच्छिदिकीर्तिभ्यश्च (उ ४-११८) इतीन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । समत्सु । संपूर्वादत्तेः क्विप् । शत्रवः शतः सौत्रो धातुर्हिंसार्थः । रुशतिभ्यां क्रुन् (उ ४-१०३) नित्त्वादाद्युदात्तत्वम् । तस्मै । सावेकाच इति विभक्त्युदात्तस्य न गोश्वन्साववर्णेति प्रतिषेधात्प्रातिपदिकस्वर एव ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः