मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५, ऋक् ७

संहिता

आ त्वा॑ विशन्त्वा॒शव॒ः सोमा॑स इन्द्र गिर्वणः ।
शं ते॑ सन्तु॒ प्रचे॑तसे ॥

पदपाठः

आ । त्वा॒ । वि॒श॒न्तु॒ । आ॒शवः॑ । सोमा॑सः । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
शम् । ते॒ । स॒न्तु॒ । प्रऽचे॑तसे ॥

सायणभाष्यम्

हे इंद्र त्वां सोमासः सोमा आ विशंतु । अभिमुख्येन प्रविशंतु । कीदृशाः सोमाः । आशवः । सवनत्रये प्रकृतिविकृत्योर्वा व्याप्तिमंतः । कीदृशेंद्र । गिर्वणो गीर्भिः स्तुतिभिः संभजनीय देवविशेष । गिर्वणा देवो भवति गीर्भिरेनं वनयंति (नि ६-१४) इति यास्कः । तथाविध हे इंद्र ते तव प्रचेतसे प्रकृष्टज्ञानाय शं सुखरूपाः सोमाः संतु ॥ गिर्वणः । गृणंतीति गिरः स्तुतयः । गृशब्दे । क्वप्यृत इद्धातोः (पा ७-१-१००) इतीत्वं रपरत्वं च गीर्भिर्वन्यते सेव्यत इति गिर्वणाः । वन षण संभक्तौ । संभक्तिः सेवा । सर्वधातुभ्योऽसुन् (उ ४-१८८) इत्यसुन्प्रत्ययः । प्रचेतसे । बहुव्रीहौ पूर्वपदप्रक्षतिस्वरत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०