मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५, ऋक् १०

संहिता

मा नो॒ मर्ता॑ अ॒भि द्रु॑हन्त॒नूना॑मिन्द्र गिर्वणः ।
ईशा॑नो यवया व॒धम् ॥

पदपाठः

मा । नः॒ । मर्ताः॑ । अ॒भि । द्रु॒ह॒न् । त॒नूना॑म् । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
ईशा॑नः । य॒व॒य॒ । व॒धम् ॥

सायणभाष्यम्

हे गिर्वण इंद्र मर्ता विरोधिनो मनुष्या नोऽस्मदीयानां तनूनां शरीराणां माभि द्रुहन् । अभितो द्रोहं मा कुर्युः । ईशानः समर्थस्त्वं वधं वैरिभिः संपाद्यमानं यवय । अस्मत्तः पृथक्कुरु । मनुष्या इत्यादिषु पंचविंशतिसंख्याकेषु मनुष्यनामसु मर्ता व्राता इति पठितं ॥ मर्ताः । असिहसिमृग्रिण्वामिदमिलूपूधूर्विभ्यस्तन् (उ ३-८६) इति तन् । नित्त्वादाद्युदात्तः । अभि । एवमादीनामंतः (फि ४-१४) द्रुहन् । द्रुह जिघांसायाम् । लिङर्थे लेट् (पा ३-४-७) इति । प्रार्थनायाम् (पा ३-३-१६१) लेट् । तस्य झि (पा ३-४-७८) झोंऽतः (पा ७-१-३) इतश्च लोपः परस्मैपदेषु (पा ३-४-९७) इतीकार लोपः । शपो लुक् । वार्वधातुकमपित् । पा । १-२-४ । इति तिङो ङित्त्वाल्लघूपधगुणाभावः (पा १-१-५) तनूनाम् । असामर्थ्यान्न परांगवद्भावः । इंद्र गिर्वणः । गतम् । ईशानः । धातोरनुदात्तेत्त्वाच्छपो लुकि लसार्वधातुकानुदात्तत्वे धातुस्वर एव शिष्यते । यवय । यौतेर्णिचि संज्ञापूर्वको विधिरनित्य इति वृद्धिर्न क्रियते । अथवा यौतीति यव । पचाद्यच् (पा ३-१-१३४) यवं करोतीत्यर्थे तत्करोति तदाचष्टे । पा ३-१-२६, ५-६ । इति णिच् । इष्ठवद्भावाट्टलोपः । पा ६-४-१५५-१ । तस्य स्थानिवद्भावाद्वृद्ध्यभावः (पा १-१-५६) वधम् । हनश्ट वधः (पा ३-३-७६) इति भावेऽप् । तत्सन्नियोगशिष्टः स्थानिवद्भावेनांतोदात्तो वधादेशः उदात्तनिवृत्ति स्वरेणाप उदात्तत्वं ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०