मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६, ऋक् १

संहिता

यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑ ।
रोच॑न्ते रोच॒ना दि॒वि ॥

पदपाठः

यु॒ञ्जन्ति॑ । ब्र॒ध्नम् । अ॒रु॒षम् । चर॑न्तम् । परि॑ । त॒स्थुषः॑ ।
रोच॑न्ते । रो॒च॒ना । दि॒वि ॥

सायणभाष्यम्

इंद्रो हि परमैश्वर्ययुक्तः । परमैश्वर्यं चाग्निवाय्वादित्यनक्षत्ररूपेणावस्थानादुपपद्यते । ब्रध्नमादित्यरूपेणावस्थितं अरुषं हिंसकरहिताग्नि रूपेणावस्थितं चरंतं वायुरूपेण सर्वतः प्रसरंतमिंद्र परि तस्थुषः परितोऽवस्थिता लोकत्रयवर्तिनः प्राणिनो युंजंति । स्वकीये कर्मणि देवतात्वेन संबद्धं कुर्वंति । तस्मैवेंद्रस्य मूर्तिविशेषभूतानि रोचना रोचनानि नक्षत्राणि दिवि द्युलोके रोचंते । प्रकाशंते । अस्य मंत्रस्योक्तार्थपरत्वं ब्राह्मणांतरे व्याख्यातम् । युंजंति ब्रध्नमित्याह । असौ वा आदित्यो ब्रध्नः । आदित्यमेवास्मै युनक्ति । अरुषमित्याह । अग्निर्वा अरुषः । अग्निमेवास्मै युनक्ति । चरंतमित्याह । वायुर्वै चरन् । वायुमेवास्मै युनक्ति । परि तस्थुष इत्याह । इमे वै लोकाः परि तस्थुषः । इमानेवास्मै लोकान्युनक्ति । रोचंते रोचना दिवीत्याह । नक्षत्राणि वै रोचना दिवि । नक्षत्राण्येवास्मै रोचयति । तै ब्रा ३-९-४-१ । इति । पंचविंशति संख्याकेषु महन्नामसु महो ब्रध्न इति पठितम् । आदित्यस्यापि महत्वादेव ब्रध्नत्वं ॥ युंजंति । अंतेः प्रत्ययस्वरेणाद्युदात्तत्वम् । ब्रध्नम् । प्रातिपदिकांतोदात्तः । अरुषम् । उष रुष रिष हिंसार्थाः । रोषंतीति रुषा हिंसकाः । इगुपधज्ञाप्रीकिरः कः (पा ३-१-१३५) इति कः । प्रत्ययस्वरेणोदात्तः । न संति रुषा यस्यासावरुषः नञ् सुभ्याम् (पा ६-२-१७२) इत्युत्तरपदांतोदात्तत्वम् । आमिपूर्वः (पा ६-१-१०७) इति पूर्वरूप एकादेश उदात्तेनोदात्तः (पा ८-२-५) इत्युदात्तत्वम् । चरंतम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुतस्वरेण धातु स्वर एव शिष्यते । तस्थुषः । तिष्ठतेर्लिटः । क्वसुरादेशः (पा ३-२-१०७) वस्वेकाचाद्छसां पा ७-२-६७ । इतीटमंतरंगमपि बाधित्वा संप्रसारणं संप्रसारणाश्रयं च बलीयः । म ६-१-१७-२ । इति शसि परतो भत्वात् (पा १-४-१८) वसोः संप्रसारणम् (पा ६-४-१३१) परपूर्वत्वम् । शासिवसिघसीनां च (पा ८-३-६०) इति षत्वं वसोः । प्रत्ययस्वरेणोदात्तत्वम् । रोचंते । तिङो लसार्वधातुकानुदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव । रोचना अनुदात्तेतश्च हलादेः (पा ३-२-१४९) इति युच् । युवोरानाकौ (पा ७-१-१) इत्यनादेसः । चित इत्यंतोदात्तत्वम् । दिवि । ऊडिदमित्यादिना विभक्तेरुदात्तत्वं ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११