मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६, ऋक् २

संहिता

यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ ।
शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥

पदपाठः

यु॒ञ्जन्ति॑ । अ॒स्य॒ । काम्या॑ । हरी॒ इति॑ । विऽप॑क्षसा । रथे॑ ।
शोणा॑ । धृ॒ष्णू इति॑ । नृ॒ऽवाह॑सा ॥

सायणभाष्यम्

अस्य ब्रध्नादिशब्दप्रतिपाद्यस्यादित्यादिमूर्तिभिस्तत्र तत्रावस्थितस्येंद्रस्य रथे हरी एतन्नामानौ द्वावश्वौ सारथयो युंजंति । इंद्रसंबंधिनॊरश्वयोर्हरिनामत्वं हरी इंद्रस्य रोहितोऽग्नेः । नै १-१५ । इति पठितत्वात् । कीदृशौ हरी । काम्या कामयितव्यौ विपक्षसा । विविधे । पक्षसी रथस्य पार्श्वौ ययोरश्वयोस्तौ विपक्षसौ । रथस्य द्वयोः पार्श्वयोर्योजितावित्यर्थः । शोणा रक्तवर्णौ धृष्णू प्रगल्भौ नृवाहसा नृणां पुरुषाणामिंद्र तत्सारथिप्रमुखाणां वोढारौ ॥ अस्य ब्रध्नमित्युक्तस्य परामर्शादिदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ (पा २-४-३२) इत्यश् । शित्त्वात् पा १-१-५५ । सर्वादेशोऽनुदात्तः । विभक्तिरनुदात्तैवेति सर्वानुदात्तत्वम् । काम्या । कमु कांतौ । कमेर्णिङ् (पा ३-१-३०) कामयतेरचो यत् (पा ३-१-९७) शित्स्वरितापवादत्वेन यतोऽनाम (पा ६-१-२१३) इत्याद्युदात्तत्वम् । सुपाम् । सुलुगिति द्विवचनस्य डादेशः । हरतो रथमिति हरी । हृषषीत्यादिना (उ ४-११८) इन् । नित्त्वादाद्युदात्तः । विपक्षसा । पचिवचिभ्यां सुट् च (उ ४-२१९) इति पचेरसुन् सुडागमश्च । विभिन्ने पक्षसी पार्श्वौ ययोस्तौ । विशब्दो निपातत्वादुदात्तः । पूर्वपदप्रकृतिस्वरेण स एव शिष्यते । द्विवचनस्य डादेशः । रथे । रमंतेऽस्मिन्निति रथः । रमु क्रीडायाम् । हनिकुषिनीरमिकाशिभ्यः क्थन् । उ २ । २ । इतिक्थन् । कित्त्वादनुदात्तोपदेशेत्यादिना (पा ६-४-३७) मकारलोपः । नित्स्वरेणाद्युदात्तः । शोणा । शोणृ वर्णगत्योः । गमनकरणत्वात्करणे घञ् । ञुत्त्वादाद्युदात्तः । सुपां सुलुगिति डादेशः । धृष्णू । ञुधृषा प्रागल्भ्ये । त्रसिगृधिधृषिक्षिपेः क्नुः (पा ३-२-१४०) कित्त्वाद्गुणाभावः । प्रत्ययस्वरः । नृवाहसा । न न्वहत इति वहेर्वहिहाधाञ् भ्यश्छंदसि (उ ४-२२०) इत्यसुन् । णिदित्यनुवृत्तेर्वृद्धिः । नित्त्वादाद्युदात्तः । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११