मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६, ऋक् ३

संहिता

के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ ।
समु॒षद्भि॑रजायथाः ॥

पदपाठः

के॒तुम् । कृ॒ण्वन् । अ॒के॒तवे॑ । पेशः॑ । म॒र्याः॒ । अ॒पे॒शसे॑ ।
सम् । उ॒षत्ऽभिः॑ । अ॒जा॒य॒थाः॒ ॥

सायणभाष्यम्

हे मर्या मनुष्या इदमाश्चर्यं पश्यतेत्यध्याहारः । किमाश्चर्यमिति तदुच्यते । आदित्यरूपोऽयमिंद्र उषद्भर्दाहकैः रश्मिभिः प्रतिदिनमुषःकालैर्वा संभूयाजायथाः । उदपद्यत । अथवा सूर्यस्यैवास्तमये मरणमुपचर्य । व्यत्ययेन बहुवचनं कृत्वा संबोधनं क्रियते । हे मर्य प्रतदिनं त्वमजायथा इति योज्यं किं कुर्वन् । अकेतवे रात्रौ निद्राभिभूतत्वेन प्रज्ञानरहिताय प्राणिने केतुं कृण्वन् । प्रातः प्रज्ञानं कुर्वन् । आपेशसे रात्रावंधकारावृतत्वेनानभिव्यक्तत्त्वाद्रूपरहिताय पदार्थाय प्रातरंधकारनिवारणेन पेशो रूपमभिव्यज्यमानं कुर्वन् । पेश इति रूपनाम पिंशते (नि ८-११) इति यास्क । अकेतवेऽपेशस इति चतुर्थौ षष्ठ्येर्थे द्रष्वव्यौ ॥ केतुं प्रातिपदिकस्वरः कृण्वन् कृवि हिंसाकरणयोश्च । लटः शत्रा देशः । इदितो नुम् धातोः (पा ७-१-५८) इति नुमागमः । कर्तरि शपि प्राप्ते धिन्विकृण्व्योरच (पा ३-१-८०) इत्युप्रत्ययः । तत्सन्नियोगेन वकारस्य चाकारः । अतो लोपः (पा ६-४-४८) इत्यकारलोपः । तस्य स्थानिवद्भावात्पूर्वस्य लघूपधगुणो न भवति (पा ७-४-८६) अकारस्य प्रत्यय स्वरेणोदात्तत्वम् । अकेतवे । बहुव्रीहौ नञ् सुभ्याम् (पा ६-२-१७२) इत्युत्तरपदांतोदात्तत्वम् । पेशः नब्विषयस्यानिसंतस्य (फि २-३) इत्याद्युदात्तः । मर्याः । छंदसि निष्वर्क्येत्यादौ (पा ३-१-१२३) म्रियतेर्निपातः । आमंत्रितनिघातः (पा ८-१-१९) असामर्थ्यात्पूर्वस्य न परांगवद्भावः । अपेशसे । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सम् । निपात आद्युदात्तः । उषद्भिः । उष प्लुष दाहे । ज्वलद्भिः रश्मिभिः । लटः शत्रादेशे शपि प्राप्ते व्यत्ययेन शः । सार्वधातुकमपित् (पा १-२-४) इति तस्य ङित्त्वाल्लघूपधगुणो न भवति । शस्य प्रत्ययस्वरेणोदात्तत्वं उपरि शतुरदुपदेशाल्लसार्वधातुकानुदात्तत्वम् । एकादेश उदात्तेनोदात्तः । अजायथाः । अजायतेत्यर्थे पुरुषव्यत्यये निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११