मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६, ऋक् ४

संहिता

आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे ।
दधा॑ना॒ नाम॑ य॒ज्ञिय॑म् ॥

पदपाठः

आत् । अह॑ । स्व॒धाम् । अनु॑ । पुनः॑ । ग॒र्भ॒ऽत्वम् । आ॒ऽई॒रि॒रे ।
दधा॑नाः । नाम॑ । य॒ज्ञिय॑म् ॥

सायणभाष्यम्

अत्रास्ति विशेषविनियोगः । चतुर्विंशेऽहनि प्रातःसवने ब्राह्मणाच्छंसिशस्त्र आदह स्वधामन्विति द्वे ऋचौ । इंद्रेण सं हि दृक्षस इत्येका । अयं तृचः षळहस्तोत्रियसंज्ञकः । तथा च सूत्रितं चतुर्विंशे होताजनिष्टेति खंडे । इंद्रेण सं हि दृक्षस आदह स्वधामन्वित्येका द्वे च (आ ७-२) इति । यद्यप्येतदैंद्र सूक्तं तथाप्यादहेत्यादिषु षट्सु मरतो वर्ण्यंते । प्रयेणैंद्र मरुत इत्यनुक्रमणि कायामुक्तत्वात् । अनु २-२२ ॥ आदित्ययमानंतर्यार्थो निपातः । अहेत्यवधारणार्थः । आदह वर्षतोरनंतरमेव । स्वधामनु । इतः परं जनिष्यमाणनन्नमुदकं वानुलक्ष्य मरुतो देवा गर्भत्वमेरिरे । मेघमध्ये जलस्य गर्भाकारं प्रेरितवंतः । जलस्य कर्तारं पर्जन्यं प्रेरितवंतः । प्रतिसंवत्सरमेवं कुर्वंतीति दर्शयितुं पुनःशब्दः प्रयुक्तः । कीदृशा मरुतः । यज्ञियं यज्ञार्हं नाम दधाना धारयंतः । सप्तसु गणेषु मरुतामीदृङ्चान्यादृङ्चेत्यादीनि यज्ञयोग्यानि नामान्यन्यत्राम्नातानि । अंध इत्यादिष्वष्वाविंशति संख्याकेष्वन्ननामसूर्क् रसः स्वधेति पठितम् । अर्ण इत्यादिष्वेकशतसंख्याकेषूदकनामसु तेजः स्वधाक्षरमिति पठितं ॥ आदह निपातावाद्युदात्तौ । स्वधाम् । स्वं लोकं दधाति पुष्णातीति । स्वधा । आतोऽनुपससर्गे कः (पा ३-२-३) कृदुत्तरपदप्रकृतिस्वरत्वम् । अनुपुनःशब्धौ निपातावाद्युदात्तौ । गर्भस्य भावो गर्भत्वम् । प्रत्ययस्वरः । एरिरे । अंतर्भावितण्यर्थादीर गतावित्यस्मादनुदात्तेतः परस्य लिटो झस्य इरेच् (पा ३-४-८१) चित्त्वादंतोदात्तः । सह सुपा (पा २-१-४) इत्यत्र सुपेति योगविभागादाङा सह तिङः समासेऽपि समासस्य (पा ६-१-२२३) इत्यंतोदात्तत्वम् । इजादेश्च गुरुमतोऽनृच्छः (पा ३-१-३६) इत्याम् न भवति मंत्रत्वात् । अहशब्दयोगान्निघाताभावः । तुपश्यपश्यताहैः पूजायाम् (पा ८-१-३९) इति निषेधात् । दधानाः । शानचश्चित्त्वादंतोदात्तत्वे प्राप्तेऽभ्यस्तानामादिः (पा ६-१-१८९) इत्याद्युदात्तत्वम् । यज्ञमर्हति यज्ञियम् । यज्ञर्त्विग्भ्यां घखञौ (पा ५-१-७१) इति घप्रत्ययः । आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् (पा ७-१-२) इतीयादेशः । प्रत्ययस्वरेणेकार उदात्त ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११