मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६, ऋक् ५

संहिता

वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नि॑भिः ।
अवि॑न्द उ॒स्रिया॒ अनु॑ ॥

पदपाठः

वी॒ळु । चि॒त् । आ॒रु॒ज॒त्नुऽभिः॑ । गुहा॑ । चि॒त् । इ॒न्द्र॒ । वह्नि॑ऽभिः ।
अवि॑न्दः । उ॒स्रियाः॑ । अनु॑ ॥

सायणभाष्यम्

अस्ति किंचिदुपाख्यानं पणिभिर्देवलोकाद्गावोऽपहृता अंधकारे प्रक्षिप्ताः ताश्चेंद्रो मरुद्भिः सहाजयदिति । एतच्चानुक्रमणिकायां सूचितं पणिभिरसुरैर्निगूळ्हा गा अन्वेष्वुं सरमां देवशुनीमिंद्रेण प्रहितामयुग्भिः पणयो मित्रीयंतः प्रोचुः अनु । ऋग्वे । १०-१०८ । इति । मंत्रांतरे च दृष्टांततया सूचितम् । निरुद्धा आपः पणिनेव गावः । ऋग्वे १-३२-११ । इति । तदेतदुपाख्यानमभिप्रेत्योच्यते ॥ हे इंद्र वीळु चिद्दृढमपि दुर्गमस्थानमारुजत्नुभिर्भंजद्भिर्वह्निभिर्वोढभिरन्यत्र नेतुं समर्थैर्मरुद्भिः सहितस्त्वं गुहा चित् गुहायामपि स्थापिता उस्रिया गा अन्वविंदः । अन्विष्य लब्धवानसि । ओजः पाज इत्यादिष्वष्वाविंशति संख्याकेषु बलनामु दक्षो वीळु च्यौत्नमिति पठितम् । नवसंख्याकेषु गोनामस्वघ्न्योस्रोस्रियेति पठितं ॥ वीळु ॥ प्रातिपदिकस्वरः । चित् । चादिरनुदात्तः । आरुजत्नुभिः । रुजो भंग इत्यौणादिकः कत्नुच् प्रत्ययः । कित्त्वाद्गुणाभावः । चित्त्वादुतोदात्तत्वं समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । गुहा । सप्तम्या डादेशः । ग्रामादीनां च (फि २-१५) इत्याद्युदात्तः । वह्निभिः । वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् (उ ४-५१) इति वहेर्निप्रत्ययः । नित्त्वादाद्युदात्तः । अविंदः । शे मुचादीनाम् (पा ७-१-५९) इति सुमागमः । लुङ् लङ् लृङ् क्ष्वडुदात्तः (पा ६-४-७१) वसंतीत्युस्रियाः । वसेः कर्तरि रियक्षत्ययः । षत्वाभावश्च बाहुलकादूहनीयः । उक्तं हि । यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यमिति । इकारः प्रत्ययस्वरेणोदात्तः ॥ ११ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११