मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६, ऋक् ७

संहिता

इन्द्रे॑ण॒ सं हि दृक्ष॑से संजग्मा॒नो अबि॑भ्युषा ।
म॒न्दू स॑मा॒नव॑र्चसा ॥

पदपाठः

इन्द्रे॑ण । सम् । हि । दृक्ष॑से । स॒म्ऽज॒ग्मा॒नः । अबि॑भ्युषा ।
म॒न्दू इति॑ । स॒मा॒नऽव॑र्चसा ॥

सायणभाष्यम्

हे मरुद्गण त्वमिंद्रेण संजग्मानः संगच्छमानः सं दृक्षसे हि । सम्यग्दृश्येथाः खलु । अवश्यमस्माभिर्द्रष्टव्य इत्यर्थः । कीदृशेनेंद्रेण । अभिभ्युषा भीतिरहितेन । कीदृशाविंद्रमरुद्गणौ । मंदू नित्यप्रमुदितौ समानवर्चसा तुल्यदीप्तीपुरा कदाचिद्वृ त्रवधदशायामिंद्रस्य सखायः सर्वे देवा वृत्रश्वासेनापसारिताः । तदानीमिंद्रस्य वृत्रसंबंधिसकलसेनाजयार्थं मरुद्भिः संगमोऽभूत् । सोऽयमर्थो वृत्रस्य त्वा श्वसथात् । ऋग्वे ८-९६-७ । इति मंत्रे संगृहीत इंद्रो वै वृत्रं हनिष्यन् । ऐ ब्रा ३-२० । इति ब्राह्मणे प्रपंचितश्च । इंद्रशब्दः परमैश्वर्यवंतं मरुद्गणं नाभिधत्ते । तदानीमिंद्रस्य संबोधनं बहिरेवाध्याहर्तव्यम् । तथा चेयमृग्यास्केन व्याख्याता । इंद्रेण हि संदृश्यसे संगच्छमानोऽबिभ्युषा गणेन मंदू मदिष्णू युवां स्थोऽपि वा मंदुना तेनेति स्यात्समानवर्चसेत्येतेन वाख्यातम् (नि ४-१२) इति ॥ सं दृक्षसे । संपश्येथाः । दृशेश्चेति वक्तव्यम् । पा १-३-२९-२ । इत्यात्मनेपदं दृशेर्लिङर्थे लेट् (पा ३-४-७) इति प्रार्थनायां लेट् । थासः से (पा ३-४-८०) लेटोऽडाटौ (पा ३-४-९४) इत्यडागमः । सिब्बहुलं लेट (पा ३-१-३४) इति सिप् । संज्ञापूर्वको विधिरनित्य इति गुणाभावः । व्रश्चादिना षत्वम् (पा ८-२-३६) षढोः कः सि (पा ८-२-४१) इति कत्वम् । आदेशप्रत्यययोः (पा ५-३-५९) इति सिपः षत्वम् । बहुलग्रहणात्सिपः परस्ताच्छबसि भवति (पा २-४-७३) सिपा व्यवधानात्पश्यादेशो न भवति (पा ७-३-७८) शपः पित्त्वादनु दात्तत्वम् । उत्तरस्य लसार्वधातुकानुदात्तत्वम् । धातुस्वर एव शिष्यते । हिशब्दयोगात्तिङ्ङतिङ इति निघातो न भवति । हि च (पा ८-१-३४) इति प्रतिषेधात् । संजग्मानः गमे संपूर्वाच्छंदसि लुङ् लङ् लटः (पा ३-४-६) इति वर्तमाने लिट् । समो गम्यृच्छिभ्याम् (पा १-३-२९) इत्यात्मनेपदविधानाल्लिटः कानजादेशः (पा ३-२-१०६) द्विर्भावः (पा ६-१-८) हलादिशेषः पा ७-४-६० । अभ्यासस्य चुत्वं पा ७-४-६२ । गमहनेत्युपधालोपः (पा ६-४-९८) कानचश्चित्त्वा दंतोदात्तत्वम् । गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम् । अभिभ्युषा । ञभी भये । पूर्ववल्लिट् । शेषात्कर्तरि परस्मैपदं ॥ पा १-३-७८ । इति परस्मैपदम् । क्वसुश्च (पा ३-२-१०७) इति लटः क्वसुरादेशः । तस्य कित्त्वाद्गुणाभावः । द्विर्भावः । अभ्यासस्य ह्रस्वजश्त्वे । पा ७-४-५९ : ८-४-५४ । क्रादिनियमात् (पा ७-२-१३) प्राप्त इड्वस्वेकाडाद्घसाम् (पा ७-२-६७) इति नियमान्निवर्तते । नञ् समासे तृतीयैकवचने भत्वाद्वसोः संप्रसारणम् (पा ६-४-१३१) इति वकारस्योकारः । संप्रसारणाच्च (पा ६-१-१०८) इति पूर्वरूपत्वम् । शासिवसिघसीनां च (पा ८-३-६०) इति षत्वम् । इयङादेशं बाधित्वैरनेका चोऽसंयोगपूर्वस्य (पा ६-४-८२) इति यणादेशः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । पूर्वेण सह संहितायामोकारस्यैङः पदांतादति (पा ६-१-१०९) इति परपूर्वत्वे प्राप्ते प्रकृत्यांतःपादमव्यपरे (पा ६-१-११५) इति प्रकृतिभावः । मंदू । मदि स्तुतिमोदमदस्वप्नकांतिगतिषु । इदितो नुम् धातोः (पा ७-१-५८) इति नुमागमः । कुरित्यनुवृत्तौ खरुशंकुपीयुनीलंगुलिगु (उ १-३७) इत्यत्राविभक्तिकनिर्देशाद्धंतेर्हिगुरितवद्धात्वंतरादपि कुरित्युक्तम् । प्रत्ययस्वरेणांतोदात्तः । द्विवचनमौ (पा ४-१-२) प्रथमयोः पूर्वसवर्णः (पा ६-१-१०२) तृतीयै कवचने चेत् सुपां सुलुगित्यादिना पूर्वसवर्णदीर्घत्वम् । समानवर्चसा । समानं वर्चो ययोरिति वा यस्येति वा बहुव्रीहिः । द्विवचने सुपां सुलुगित्यादिनाकारादेशः । समानपदस्य प्रातिपदिकांतोदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण तदेवावशिष्यते ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२