मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६, ऋक् १०

संहिता

इ॒तो वा॑ सा॒तिमीम॑हे दि॒वो वा॒ पार्थि॑वा॒दधि॑ ।
इन्द्रं॑ म॒हो वा॒ रज॑सः ॥

पदपाठः

इ॒तः । वा॒ । सा॒तिम् । ईम॑हे । दि॒व । वा॒ । पार्थि॑वात् । अधि॑ ।
इन्द्र॑म् । म॒हः । वा॒ । रज॑सः ॥

सायणभाष्यम्

इंद्रं देवं प्रति सातिं धनदानमधीमदे । आधिक्येन याचामहे । कस्माल्लोकादिति तदुच्यते । इतोऽस्मादभिदृश्यमानात्वार्थिवात्पृथिवीलोकाद्वा दिवो वा द्युलोकाद्वा महो महतः प्रौढाद्रजसो वा पक्ष्यादीनां रंजकादंतरिक्षलोकाद्वा । अयमिंद्रो यतःकुतश्चिदानीयास्मभ्यं धनं प्रयच्छत्वित्यर्थः । सप्तदशसु याच्ञाकर्मस्वीमहे यामीति पठितं ॥ इतः । इतः । इदंशब्दात्पंच मास्तसिल् । इदम इश् (पा ५-३-३) इतीश् । शित्त्वात्सर्वादेशः । अत्रोडिदमित्यस्यावकाशः (पा ६-१-१७१) आभ्याम् । एभिः लितीत्यस्यावकाशः (पा ६-१-१९३) पचनं पाचकः । उभावपि नित्यौ । तत्र परत्वाद्विप्रतिषेधे परं कार्यम् (पा १-४-२) इति लितीतीकारस्योदात्तत्वम् । पश्चात्तसेः प्राग्दशो विभक्तिः (पा ५-३-१) इति विभक्तिसंज्ञ कत्वादूडिदमित्यादिनासर्वनामस्थानविभक्तेरुच्यमानमुदात्तत्वं भवति । सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव । परि ४० । इत्यूडिदमित्यस्य पुनरप्रवृत्ति रेवेति चेन्न । लक्ष्यानुरोधेन पुनः प्रसंगविज्ञानं चेति स्वीकारात् । नन्वेवं यतस्तत इत्यादावपि परेण लित्सर्वेण बाधितमपि सावेकाच इति तसिल उदात्तत्वं स्यादिति चेन्न । यत्तच्छब्दयोः साववर्णांतत्वे न गोश्चन्साववर्णेति (पा ६-१-१८२) निषेधात् । न च पुनः प्रसंगविज्ञानं चेत्येतत्सार्वत्रिकं लक्ष्यानुरोधेन क्वचिदेव तदाश्रयणादिति । सातिम् । षणु दाने । धात्वादेः षः सः (पा ६-१-६४) भावे क्तिन् । जनसनखनां सन्घलो (पा ६-४-४२) इति नकारस्यात्वम् । तितुश्रतथसिसुसरकसेषु च । सा ७ । २ । ९ । इति निषेधादिण्न भवति । नित्सर्वे प्राप्त उदात्त इत्यनुवृत्तावूतियूतिजूतिसातिहेतिकीर्तयश्च (पा ३-३-९७) इति निपातनादंतोदात्तत्वम् । ईमहे । ईङ् गतौ । श्यनोऽपि बहुलं छंदसीति लुक् । अस्य धातोर्ङित्त्वात्तास्यनुदात्तेन्ङि ददुपदेशात् (पा ६-१-१८६) इति लसार्वधातुकस्यानुदात्तत्वे धातुस्वर एव शिष्यते । न च तिङ्ङतिङ इति निघातः । चवायोगे प्रथमा (पा ८-१-५९) इति निषेधात् । उत्तरवाक्ययोरपि हि वाशब्दयोगादन्यथा वाक्यापरिपूर्तेस्तिज्विभक्तेरवश्यमध्याहारात्तदपेक्षयैषा प्रथमा तिङ्विभक्तरिति । दिवः । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । पार्थिवात् । प्रथ प्रख्याने । प्रथत इति पृथिवी । प्रथेः षिवन्संप्रसातणं च (उ १-१५०) इति षिवन्प्रत्ययः । षिद्गौरादिभ्यश्च (पा ४-१-४१) इति ङीष् । प्रत्ययस्वरेणोदात्तः । शेषनिघातेनानुदात्तादिः पृधिवीशब्दः । पृथिव्या विकार इत्यर्थ ओरञऽत्यनुवृत्तावनुदात्तादेश्च (पा ४-३-१४०) इत्यञ् । यस्येति च (पा ६-४-१४८) इतीकारलोपः तद्धितेष्वचामादेः (पा ७-२-११७) इत्यादिवृद्धिः । रपरत्वम् (पा १-१-५१) ञ्नत्यादिर्नित्यमित्याद्युदात्तः । अधि । निपातत्वादाद्युदात्तः । इंद्रं रन्प्रत्ययांत आद्युदात्तः । मह । महत इत्यस्याकारतकारयोर्लोपश्छांदसः । सावेकाच इति विभक्तेरुदात्तत्वम् । रजसः । नब्विषयस्यानिसंतस्येत्याद्युदात्तत्वं ॥ १२ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२