मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७, ऋक् १

संहिता

इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ ।
इन्द्रं॒ वाणी॑रनूषत ॥

पदपाठः

इन्द्र॑म् । इत् । गा॒थिनः॑ । बृ॒हत् । इन्द्र॑म् । अ॒र्केभिः॑ । अ॒र्किणः॑ ।
इन्द्र॑म् । वाणीः॑ । अ॒नू॒ष॒त॒ ॥

सायणभाष्यम्

गाथिनो गीयमानसामयुक्ता उद्गातार इंद्रमिदिंद्रमेव बृहत् त्वामिद्धि हवामहे । ऋग्वे ६-४६-१ । इत्यस्यामृच्युत्पन्नेन बृहन्नामकेन साम्नानूषत । स्तुतवंतः । अर्किणोऽर्चनहेतुमंत्रोपेता होतारोऽर्केभिर्यग्रूपैर्मंत्रैरिंद्रमेवानूषत । ये त्ववशिष्टा अध्वर्यवस्ते वाणीर्वाग्भिर्यजूरूपाभिरिंद्रमेवानूषत । अर्कशब्दस्य मंत्रपरत्वं यास्केनोक्तम् । अर्को मंत्रो भवति यदेनेनार्चंति (नि ५-४) इति । श्लोक इत्यादिषु सप्तपंचाशत्सु वाङ्नामसु वाशी वाणीति पठिशं ॥ गाथिनः । उषिकुषिगार्तिभ्यस्थन् (उ २-४) इति गायतेस्थन्प्रत्ययः । नित्त्वादाद्युदात्तः । गाथा एषां संतीति गाथिनः । व्रीह्यादिभ्यश्च (पा ५-२-११६) इतीनिः । प्रत्ययस्वरेणेकार उदात्तः । स च सति शिष्टः । बृहत् । बृहता । तृतीयैकवचनस्य सुपां सुलुगिति लुक् । पृषद्बृहन्महज्जगच्छतृवच्च (उ २-८४) इत्यंतोदात्तो निपातितः । अर्केभिः । अर्च पूजायाम् । अर्च्यतॆ एभिरत्यर्कामंत्राः । पुंसि संज्ञायां घः प्रायेण (पा ३-३-११८) इति घः । चचोः कु घिण्यतोः (पा ७-३-५२) इति कुत्वम् । प्रत्ययस्वरेणांतोदात्तः । बहुलं छंदसि (पा ७-१-१०) इति भिस ऐसादेशो न भवति । अर्काः स्तुतिसाधनभूता मंत्रा एषां संतीत्यर्किणः । वाणीः । वृषादीनां च (पा ६-१-२०३) इत्याद्युदात्तः । दीर्घाज्जसि च (पा ६-१-१०५) इति पूर्वसवर्णदीर्घनिषेधस्य वा छंदसि (पा ६-१-१०६) इति विकल्पितत्वाद्धीर्घत्वम् । तृतीयार्थे प्रथमा । अनूषत । णु स्तुतौ । णो नः (पा ६-१-६५) इति नत्वम् । लुङि व्यत्ययेनात्मनेपदम् । झस्यादादेशः (पा ७-१-५) सिच इडभाव उकारस्य दीर्घत्वं च छांदसम् । धातोः कुटादित्वात् (पा १-२-१) सि चो ङित्वेन (पा १-१-५) गुणाभावः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३