मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७, ऋक् २

संहिता

इन्द्र॒ इद्धर्यो॒ः सचा॒ सम्मि॑श्ल॒ आ व॑चो॒युजा॑ ।
इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ॥

पदपाठः

इन्द्रः॑ । इत् । हर्योः॑ । सचा॑ । सम्ऽमि॑श्लः । आ । व॒चः॒ऽयुजा॑ ।
इन्द्रः॑ । व॒ज्री । हि॒र॒ण्ययः॑ ॥

सायणभाष्यम्

इंद्र इदिंद्र एव हर्योर्हरिनामकयोरश्वयोः सचा सह युगपदा संमिश्लः सर्वतः सम्यग्मिश्रयिता । कीदृशयोर्हर्योः । वचोयुजा । इंद्रस्य वचनमात्रेण रथे युज्यमानयोः सुशिक्षितयोरित्यर्थः । अयमिंद्रो वज्री वज्र युक्तो हिरण्ययो हिरण्यमयः । सर्वाभरणभूषित इत्यर्थः ॥ हर्योः । हरत इति हरी । इन् । नित्त्वादाद्युदात्तः सचा सहेत्युक्तम् (नि ५-५) संमिश्लः । मिश्रणं मिश्रः । मिश्रयतेर्घञ् (पा ३-३-१८) सम्यक् मिश्रो यस्यासौ संमिश्रः । लत्वं छांदसम् । सम्यक् मिश्रयितेत्यर्थः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वचोयुजा । वचसा युज्येते इति वचोयुजौ । तयोः । षष्ठीद्विवचनस्य सुपां सुलुगित्याकारादेशः । युङ् शब्दो धातुस्वरेणांतोदात्तः । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । वज्री । वज्रमस्यास्ति । अत इनिठनौ (पा ५-२-११५) प्रत्ययस्वरः । हिरण्ययः । ऋत्व्यवास्त्व्य वास्त्वमाध्वीहिरण्ययानि च्छंदसि (पा ६-४-१७५) इति हिरण्यमयशब्दस्य मकारलोपो निपात्यते । अकारः प्रत्ययस्वरेणोदात्तः । पूर्वेणानुदात्तेन सहैकादेश उदात्तेनोदात्त इत्युदात्त ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३