मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७, ऋक् ३

संहिता

इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं॑ रोहयद्दि॒वि ।
वि गोभि॒रद्रि॑मैरयत् ॥

पदपाठः

इन्द्रः॑ । दी॒र्घाय॑ । चक्ष॑से । आ । सूर्य॑म् । रो॒ह॒य॒त् । दि॒वि ।
वि । गोभिः॑ । अद्रि॑म् । ऐ॒र॒य॒त् ॥

सायणभाष्यम्

अयमिंद्रो दीर्घाय प्रौढाय निरंतराय चक्षसे दर्शनाय दिवि द्युलोके सूर्यमा रोहयत् । पुरा वृत्रासुरेण जगति यदापातितं तमस्तन्निवारणेन प्राणिनां दृष्टिसिद्ध्यर्थमादित्यं द्युलोके स्थापितवानित्यर्थः । स च सूर्ये गोभिः स्वकीयरश्मिभिरद्रिं पर्वतप्रमुखं सर्वं जगद्व्यैरयत् । विशेषेणदर्शनार्थं प्रेरितवान् । प्रकाशितवानित्यर्थः । अथवा इंद्र एव गोभिर्जलैर्निमित्तभूतैरद्रिं मेघं व्यैरयत् । विशेषेण प्रेरितवान् । पंचदशसंख्याकेषु रश्मिनामसु खेदयः किरणा गाव इति पठितम् । त्रिंशत्संख्याकेषु मेघनामस्वद्रिर्ग्रावेति पठितं ॥ दीर्घाय । प्रातिपदिकस्वरेणांतोदात्तः । चक्षसे । चक्षे सर्वधातुभ्योऽसुन् (उ ४-१८८) इत्यसुन् । बहुलग्रहणात्ख्याञादेशाभावः । नित्त्वादाद्युदात्तः । सूर्यम् । सुवति प्रेरयतीति सूर्य । षू प्रेरणे । धात्वादेः षः सः । राजसूयसूर्येत्यादिना (पा ३-१-११४) क्शप्प्रत्ययः । तस्य रुडागमश्च निपात्यते । क्यपः कित्त्वाद्गुणाभावः । पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । रोहयत् । रुहेर्ण्यंताल्लङि बहुलं छंदस्य माङ्योगेऽपि (पा ६-४-७५) इत्यडभावो निघातश्च दिवि । ऊडिदमित्यादिना विभक्तेरुदात्तत्वम् । अद्रिम् । अदिशदिभूशुभिभ्यः क्रिन् (उ ४-६५) इति क्रिन्प्रत्ययः । अदंति पशवस्तृणादिकमत्रेत्यद्रिः । नित्त्वादाद्युदात्तत्वम् । ऐरयत् । ईर गतौ । ण्यंताल्लङ् । निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३