इन्द्र॒ वाजे॑षु नोऽव स॒हस्र॑प्रधनेषु च ।
उ॒ग्र उ॒ग्राभि॑रू॒तिभि॑ः ॥
इन्द्रः॑ । वाजे॑षु । नः॒ । अ॒व॒ । स॒हस्र॑ऽप्रधनेषु । च॒ ।
उ॒ग्रः । उ॒ग्राभिः॑ । ऊ॒तिऽभिः॑ ॥
हे इंद्र उग्रः शत्रुभिरप्रधृष्यस्त्वमुग्राभिरप्रधृष्याभिरूतिभिरस्मद्विषयरक्षाभिर्वाजेषु युद्देषु नोऽस्मानव । रक्ष । तथा सहस्रप्रधनेषु च । सहस्रसंख्याकगजाश्चादिलाभयुक्तेषु महायुद्धेष्वपि रक्ष ॥ वाजेषु । वृषादीनां च (पा ६-१-२०३) इत्याद्युदात्तत्वम् । नोऽव । नसः सकारस्य रुत्वोत्वगुणेषु प्रकृत्यांतःपाद मिति प्रकृतिभावो न भवति । अव्यपर इति निषेधात् (पा ६-१-११५) अव । अव रक्षणे तिङ्ङतिङ इति निघातः । यद्यपि सहस्रप्रधनेषु चावेत्यध्याहृतां क्रियामपेक्ष्य प्रथमायाः श्रूयमाणाया अवेति क्रियायाश्चवायोगे प्रथमा (पा ८-१-५९) इति निघातनिषेधः प्राप्तस्तथापि वाजेष्वित्यत्र चकारस्य लुप्तत्वाच्चादिलोपे विभाषा (पा ८-१-६३) इति निषेधस्य विकल्पतत्वावत्र निघातः प्रवर्तते । सहस्रशब्दः कर्दमादीनां च (फि ३-१०) इति मध्योदात्तः । सहस्रप्रधनेषु वाजेषु । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । उग्रः । उच समवाये । चस्य गः । ऋज्रेंद्रेति रन् । व्यत्ययेनांतोदात्तः । ऊतिभिः । ऊतियूतीत्यादिना क्तिन्नुदात्तः ॥ ४ ॥