मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७, ऋक् ५

संहिता

इन्द्रं॑ व॒यं म॑हाध॒न इन्द्र॒मर्भे॑ हवामहे ।
युजं॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ॥

पदपाठः

इन्द्र॑म् । व॒यम् । म॒हा॒ऽध॒ने । इन्द्र॑म् । अर्भे॑ । ह॒वा॒म॒हे॒ ।
युज॑म् । वृ॒त्रेषु॑ । व॒ज्रिण॑म् ॥

सायणभाष्यम्

वयमनुष्ठातारो महाधने प्रभूतधननिमित्तमिंद्रं हवामहे । आह्वयामः । अर्भेऽर्भके स्वल्पेऽपि धने निमित्त भूते सतींद्रं हवामहे । कीदृशमिंद्रम् । युजं सहकारिणं समाहितं वा वृत्रेषु शत्रुषु धनलाभविरोधिषु प्राप्तेषु तन्निवारणाय वज्रिणं वज्रोपेतं ॥ महाधनशब्दो यद्यपि संग्रामना मसु पठितस्तथापि महद्धनमत्र संग्राम इति बहुव्रीहित्वे सत्यंतोदात्तत्वासिद्धेर्नात्र तद्गृहीतम् । महाधने महच्छ तद्धनं चेति समासस्येत्यंतोदात्तः । अर्भे । अर्तिगृभ्यां भन् (उ ३-१५२) नित्त्वादाद्युदात्तः । हवामहे । ह्वेञ् स्पर्धायां शब्दे च । ञित्त्वात्कर्त्रभिप्राये (पा १-३-७२) आत्मनेपदम् । लटः स्थाने महिङ् (पा ३-४-७८) टित आत्मनेपदानाम् (पा ३-४-७९) इति टेरेत्वम् । कर्तरि शप् (पा ३-१-६८) ह्वः संप्रसारणम् (पा ६-१-३२) इत्यनुवृत्तौ बहुलं छंदसि (पा ६-१-३४) इति संप्रसारणं वकारस्योकारः । परपूर्वत्वम् । गुणावादेशौ । अतो दीर्घो यञि (पा ७-३-१०१) इति दीर्घत्वम् । तिङ्ङतिङ इति निघातः । युजम् । युज समाधावित्यस्य क्विप् । युजेरसमासे (पा ७-१-७१) इति नुम् न भवति । स हि युजेरिति निर्देशादिकाररहितस्य न भवति । अनित्यमागमशासनमिति वा युजिर्योग इत्यस्यापि नुम् न भवति । वृत्रेषु । वृतु वर्तने । प्रतिकूलतया वर्तंत इति वृत्राणि शत्रु कुलानि । स्भायितंचीत्यादिना रक्प्रत्ययः (उ २-१३) कित्त्वाद्गुणाभावः । प्रत्यय स्वरः । वज्रिणम् । अत इनिठनावितीनिः । प्रत्ययस्वरः ॥ १३ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३