मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७, ऋक् ६

संहिता

स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि ।
अ॒स्मभ्य॒मप्र॑तिष्कुतः ॥

पदपाठः

सः । नः॒ । वृ॒ष॒न् । अ॒मुम् । च॒रुम् । सत्रा॑ऽदावन् । अप॑ । वृ॒धि॒ ।
अ॒स्मभ्य॑म् । अप्र॑तिऽस्कुतः ॥

सायणभाष्यम्

हे सत्रादावन् अस्मदभीष्टानां सर्वेषां फलानां सह प्रदातः अतो व्रीह्यादिनिष्यत्त्यर्थं हे वृषन् वृष्टिप्रदेंद्र नोऽस्मदर्थममुं दृश्यमानं चरुं मेघमपा वृधि । उद्धाटय । तथैवास्मभ्यमस्मदर्थमप्रतिष्कुतः प्रतिशब्दरहितः । यद्यदस्माभिर्याच्यते तत्र सर्वत्र नेति प्रतिशब्द नोच्चारयति । अतोऽस्मद्विषये कदाचिदप्यप्रतिस्खलितः । एतदेवाभिप्रेत्य यास्क आह । अप्रतिष्कुतोऽप्रतिष्कृतोऽ प्रतिस्खलितो वा (नि ६-१६) इति ॥ वृषन् । आमंत्रितनिघातः । अमुम् । प्रातिपदिकस्व । रेणांतोदात्तः । चरुम् । चरतीति चरुः । भृमृशीतृचरित्सरितनिधनिमिमस्जिभ्य उः उ १-७ । इत्युप्रत्ययः । प्रत्ययस्वरेणांतोदात्तः । सत्रादावन् । सत्राशब्दः सहार्थे । अभिमतफलजातं सकलं सह ददातीति सत्रादावा । अतोमनिन् क्वनिब्वनिपश्च (पा ३-२-७४) इति वनिप् । आमंत्रितस्य चेत्याद्युदात्तत्वम् । पादादित्वान्न निघातः । अप । निपातस्य च (पा ६-३-१३६) इति दीर्घः । निपात आद्युदात्तः । वृधि । वृञ् वरणे । लोटः सिप् । तस्य सेर्ह्यपिच्च (पा ३-४-८७) इति हिः । स्वादिभ्यः श्नुः (पा ३-१-७३) तस्य बहुलं छंदसीति लुक् । श्रुशृणुपृ कृव्यभ्यश्छंदसि (पा ६-४-१०२) इतिहेर्धिरादेशः । तस्य ङीत्त्वात्पूर्वस्य गुणाभावः । निघातः । अस्मभ्यम् । अस्मच्छब्दाद्भ्यसो भ्यम् (पा ७-१-३०) इति भ्यमादेशः । शेषे लोपः (पा ७-२-९०) इति दकार । लोपः । बहुवचने झल्येत् (पा ७-३-१०३) इत्येवं न भवति । अंगवृत्ते पुनर्वृत्तावविधिर्निष्ठ तस्येत्युक्तम् (म ७-१-३०) प्रातिपदिकस्वरेण स्मेत्यकार उदात्तः । भ्यसोऽभ्यमित्यभ्यमादेशपक्षे शेषे लोप इति मपर्यंत शेषस्याद् शब्दस्य लोपः । तदोदात्त निवृत्तिस्वरेणाभ्यम अदेरकारस्योदात्तत्वम् (पा ६-१-१६१) अप्रतिष्कुतः । केनचिदप्रतिशब्दितः । कुङ् शब्धे । निष्ठा (पा ३-२-१०२) इति कर्मणि क्तप्रत्ययः । प्रतेः प्राक्प्रयोगः पारस्करादेराकृतिगणत्वात्सुडागम (पा ६-१-१५७) सुषामादेराकृतिगणत्वात्षत्वं पा ८-३-९८ । नञ् समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४