मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७, ऋक् ७

संहिता

तु॒ञ्जेतु॑ञ्जे॒ य उत्त॑रे॒ स्तोमा॒ इन्द्र॑स्य व॒ज्रिणः॑ ।
न वि॑न्धे अस्य सुष्टु॒तिम् ॥

पदपाठः

तु॒ञ्जेऽतु॑ञ्जे । ये । उत्ऽत॑रे । स्तोमाः॑ । इन्द्र॑स्य । व॒ज्रिणः॑ ।
न । वि॒न्धे॒ । अ॒स्य॒ । सु॒ऽस्तु॒तिम् ॥

सायणभाष्यम्

तुंजे तुंजे तस्मिंस्तस्मन्फलदातरि देवांतरे ये सोमाः स्तोत्रविशेषा उत्तर उत्कृष्वाः संति तैः स्तोमैः सर्वैरपि वज्रिणो वज्रयुक्तस्यास्येंद्रस्य सुष्टुतिं योग्यां शोभनस्तुतिं न विंधे । न विंदामि । इंद्रस्यात्यंतगुणाबाहुल्येन देवांतरेषूत्तमत्वेन प्रसिद्धान्यपि स्तोत्राणि न पर्याप्तानीत्यर्थः । एतामृचं यास्कं एवं व्याचप्वे । तुंजस्तुंजतेर्दान कर्मणः । दाने दानेय उत्तरे स्तोमाइंद्रस्य वज्रिणो नास्य तैर्विंदामि समाप्तिं स्तुतेः (नि ६-१८) इति ॥ तुंजे तुंजे । तुंजनिर्दानकर्मेत्युक्तम् । ततः कर्तरि पचाद्यच् (पा ३-१-१३४) चित इत्यंतो दात्तत्वम् । नित्यवीप्सयोः (पा ८-१-४) इति द्विर्भावः । तस्य परमाम्रेडितम् । पा ८-१-२ इति द्वितीयस्याम्रेडितसंज्ञा । अनुदात्तं च (पा ८-१-३) इत्यनुदात्तत्वम् । दातरि दातरीत्यर्थः । निरुक्ते तु दाने दान इत्यर्थतो व्याख्यानम् । उत्तरे तृप्लवनतरणयोः । भावे ऋदोरप् (पा ३-३-५७) उच्छब्द उत्कृष्टवचनः । उत्कृष्टस्तरो यस्येति बहुव्रीहिः । उच्चब्दो निपाता अद्युदात्त इत्याद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । स्तोमाः । अर्तिस्तुस्वित्यादिना (उ १-१३९) स्तोमशब्दो मनंतो नित्त्वादाद्युदात्तः । विंधे । विद्लृलाभे । लट् । स्वरितेत्त्वादात्मनेपदम् । उत्तमैकवचनमिट् पा ३-४-७८ । तुदादिभ्यः शः (पा ३-१-७७) शे मुचादीनामिति नुम् (पा ७-१-५९) दकारस्य व्यत्ययेन धकारः । अस्य । प्रकृत्यस्येंद्रस्य परामर्शादन्वादेश इदमोऽश् (पा २-४-३२) शित्त्वात्सर्वादेशोऽनुदात्तः । सुष्टुतिम् । ष्टुञ् स्तुतौ । धात्वादेः षः सः (पा ६-१-६४) इति सत्वम् । स्त्रियां क्तिन् (पा ३-३-९४) इति भावे क्तिन् । स्वित्युदात्तेनोपसर्गेण प्रादिसमासः (पा २-२-१८) उपसर्गात्सुनोतीत्यादिना षत्वम् (पा ८-३-६५) अत्राव्ययपूर्वपदप्रकृतिस्वरत्वेन सोः प्राप्तमुदात्तत्वं बाधित्वा गतिकार कोपपदात्कृत् (पा ६-२-१३९) इत्युत्तरपदप्रकृतिस्वरेण धातोरुदात्तत्वे प्राप्ते तदपवादत्वेन तादौ च निति कृत्यतौ पा ६-२-५० । इत्यनंतरस्य गतिसंज्ञकस्य सोरेवोदात्तत्वेन भवितव्यम् । तत्तु मन् । क्तिव्याख्यानशयनासनस्थानयाजकादिक्रीताः (पा ६-२-१५१) इत्युत्तरपदांतोदात्तत्वेन बाध्यते । तथा च सुहवां सुष्टुती हुवे । ऋग्वे २-३२-४ । वृष्णे चोदस्व सुष्टुतिम् । ऋग्वे ८-७५-६ । यास्ते राके सुमतयः । ऋग्वे २-३२-५ । इत्यादावंतोदात्तत्वमित्याहुः । यथा तु मन् क्तिन्नित्यादौ वृत्तावुक्तं तथैव तन्न घटत इति लक्ष्यते । तत्र हि कारकाद्दत्तश्रुतयोरेवाशिषि (पा ६-२-१४८) इत्यतः । कारकादित्यनुवृत्तेः पाणिनिकृतिरित्यादावेव मन् क्तिन्नित्यादिसूत्रमित्युक्तं कारकादित्येव प्रकृतिः प्रहृतिरिति च प्रत्युदाहृतम् । स्यादेतत् । स्तूयतेऽनयेति स्तुतिरिति क्तिना करणभूतिर्गभिदीयते । सुशब्देन च करणमेव विशेष्यते न धात्वर्थः । तथा च सुष्टुतिरित्यत्र सुशब्दः कारकपर एव भविष्यति । प्रकृतिः प्रहृतिरित्यादौ तु प्रशब्दो धात्वर्थे विशेषणमेवेति तत्प्रत्युदाहरणोपपत्तिरिति । न । एवं सति सुशब्दस्य क्रिया योगाभावादुपसर्गाः क्रियायोगे (पा १-४-५९) इत्युक्ता उपसर्गसंज्ञा न स्यात् । न तथा चोपसर्गात्सुनोतिसुवतीत्यादिना षत्वं न स्यात् । ननु क्तिना करणमभिधीयते । क्रियासाधनं च करणम् । तथा च करणविशेषणस्यापि सुशब्दस्य करणांतर्गतक्रियायोगादुपसर्गता भविष्यतीति । न । तथा सति यत्क्रियायुक्तास्तं प्रत्युप सर्गसंज्ञका इति करोत्यर्थमेव प्रति सोरुपसर्गता न तु स्तुधात्वर्थं प्रतीत्यस्य षत्वं न स्यादेव । ननु स्तुधात्वर्थद्वारैव तत्करणस्य सुशब्दो विशेषणं भविष्यति । या हि शोभना स्तुतिस्तत्करणमपि शोभनमेवेति । एवं च स्तुधात्वर्थसंबंधात्तं प्रत्युपसर्गत्वेन षत्वमपि भविष्यति । तद्द्वारा करणविशेषणत्त्वात् कारकवचनोऽपि सुशब्दो भविष्यतीति । वृत्त्यविरोधेनैव मन् क्तिनादिसूत्रस्य सुष्टुतिशब्दो विषयो भविष्यति । प्रकृतिः प्रहृतिरित्यत्र भावे क्तिन् प्रत्युदाहृतेति । न तत्र प्रशब्दस्य करण परत्वम् । करणे क्तिनुदाहरणेऽपि धात्वर्थमात्रविशेषणतैव विवक्षिता न तद्द्वारा प्रत्ययार्थविशेषणतापीति तत्प्रत्युदाहरणोपपत्तिरिति । सुष्टुतिरित्यत्र पुनः क्तिनभिधेयकरणपर्यंतं सुशब्दस्य व्यापार इत्यदाहरणतैव न प्रत्युदाहरणतेति । न । किमत्रसुशब्दः श्रुत्यैव प्रकृतिप्रत्ययार्थोभयविशेषणपरः । उत शुत्यैकं विशिनष्टि अर्थादितरदिति । यदाप्युभयपरत्वं तदापि किं यौगपद्येन उत क्रमेणेति । आद्ये प्रति विशेष्यं विशेषणपदावृत्तिरिति प्रसंगः । द्वितीये विरम्य व्यापारापातः न च शब्दबुद्धि कर्मणां विरम्य व्यापारः कस्यचिद्दृष्ट इष्टो वा । अतो न श्रुतोभयपरत्वम् । अथैकत्र श्रुत्या तात्पर्यम् । अपरत्र त्वर्थादिति । तत्र धात्वर्थसंबंधस्यार्थिकत्वे षत्वासिद्धिः । प्रत्ययार्थसंबंधस्यार्थिकत्वे मन् क्तिन्नित्यादिस्वरासिद्धिः । अर्थिकेनापि कारकसंबंधेनोदाहरणत्वाभिधाने प्रकृतिः प्रहृतिरित्याप्रत्युदाहरणं न स्यात् । श्रुत्या धात्वर्धमात्रसंबंधस्यापि प्रशब्दस्यार्थात्तत्करणसंबंधः केन वारयितुं शक्यत इत्येषा दिक् । अत इह प्रत्ययार्थमात्र संबंधवरत्वांगीकारेण स्वरः सिद्ध्यतु षत्वं तु छांदसमस्तु । शोभना स्तुतिर्यस्यामिति बहुव्रीहिर्वा भवतु एवं च नञ्सुभ्याम् (पा ६-२-१७२) इत्यंतोदात्तं भविष्यति । अथवा सुष्ठु स्तुवंतीति सुष्टुतय इति करणभूता ऋचः स्तुतिशब्देनोच्यंते । क्तिच् क्तौ च संज्ञायाम् । पा ३- -१७४ । इति क्तिच् व्रत्यये सति चित्त्वादंतोदात्तता भविष्यति । न च करणीभूतानामृचां कर्तृप्रत्ययेन क्तिचा कथमभिधानमिति वाच्यम् । काष्ठानि पचंतीतिवत्तासामपि स्वव्यापारप्राधान्य विवक्षया करणत्वोपपत्तेरिति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४