मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७, ऋक् ८

संहिता

वृषा॑ यू॒थेव॒ वंस॑गः कृ॒ष्टीरि॑य॒र्त्योज॑सा ।
ईशा॑नो॒ अप्र॑तिष्कुतः ॥

पदपाठः

वृषा॑ । यू॒थाऽइ॑व । वंस॑गः । कृ॒ष्टीः । इ॒य॒र्ति॒ । ओज॑सा ।
ईशा॑नः । अप्र॑तिऽस्कुतः ॥

सायणभाष्यम्

वृषा कामानां वर्षितेंद्र ओजसा स्वकीयबलेनानुग्रहीतुं कृष्टीर्मनु । ष्यानियर्ति । प्राप्नोति । कीदृश इंद्रः । ईशान समर्थोऽप्रतिष्कुतः प्रतिशब्दरहितः । याच्यमानं न परिहरतीत्यर्थः । इंद्रस्य दृष्टांतः । वंसगो वननीयगतिर्वृषभो यूथेव गोयूथानि यथा प्राप्नोति तद्वत् ॥ वृषा । कनिन्युवृषितक्षिधन्विरादिद्युप्रतिदिवः (उ १-१५६) इति वर्षतः कनिन्प्रत्ययः । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तः । यूथा इव । युवंति मिश्रीभवंतीति यूथानि । यु मिश्रणामिश्रणयोः । तिथपृष्ठगूढयूथप्रोथाः । उ २-१२ ॥ इति थक् प्रत्ययांतो निपातितः । निपातनाद्धीर्घत्वम् । प्रत्ययस्वरेणाकार उदात्तः । शेश्छंदसि बहुलम् (पा ६-१-७०) इति लुक् । इवेन एभक्त्यलोपः । पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम् । पा २-१-४-२ । इति समासेऽपि स एव स्वरः । वंसगः । पृषोदरादित्त्वादभिमतरूपस्वरसिद्धिः (पा ६-३-१०९) कर्षंतीति कृष्टयः । क्तिच् क्तौ च संज्ञा यामिति क्तिच् । चित्त्वादांतोदात्तः । इयर्ति । ऋ सृ गतौ । तिप् । शपः श्लुः श्लौ (पा ६-१-१०) इति द्विर्भावः । अभ्यासस्योरदत्वहलादिशेषौ । पा ७-४-६६-६० । अर्तिपिपर्त्योश्च पा ७-४-७७ । इत्यकारस्य इकारः । अभ्यासस्यासवर्णे (पा ६-४-७८) इतीयङादेशः । अंगस्य गुणोरपरत्वम् । ओजसा । उब्जेर्बलोपश्च (उ ४-१९१) इत्यसुन् तत्सन्नियोगेन बकार लोपः । लघूपधगुणः (पा ७-३-८६) नित्त्वादाद्युदात्तः । ईशानः । ईश ऐश्वर्ये लटः शानच् । अदिप्रभृतिभ्यः शप इति शपो लुक् । चित इत्यंतोदात्तं बाधित्वानुदात्तेत्त्वाल्लसार्वधातुकानुदात्तत्वेन धातुस्वर एव शिष्यते । अप्रतिष्कुतः । अप्रतिशब्दितः । कु शब्दे । कर्मणि क्तः । पारस्करादित्वात्सुडागमः । सुषामादित्वात्षत्वम् । नञ् समासः अव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४