मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७, ऋक् ९

संहिता

य एक॑श्चर्षणी॒नां वसू॑नामिर॒ज्यति॑ ।
इन्द्र॒ः पञ्च॑ क्षिती॒नाम् ॥

पदपाठः

यः । एकः॑ । च॒र्ष॒णी॒नाम् । वसू॑नाम् । इ॒र॒ज्यति॑ ।
इन्द्रः॑ । पञ्च॑ । क्षि॒ती॒नाम् ॥

सायणभाष्यम्

य इंद्रः स्वयमेक एव चर्षणीनां मनुष्याणामिरज्यति ईष्टे तथा वसूनां धनानामिरज्यति स इंद्रः पंच निषादपंचमानां क्षितीनां निवासार्हाणां वर्णानामनुग्रहीतेति शेषः ॥ एकः । इण् गतौ । इण् भीकापाशल्यतिमर्चिभ्यः कन् (उ ३-४३) इति कन् । बाहुलकात्कलोपाभावः नित्त्वादाद्युदात्तत्वम् । चर्षणीनाम् । प्रातिपदिकस्वरेणांतोदात्तः । अंतोदात्तादित्यनुवृत्तौ नामन्यतरस्यामिति विभक्तेरुदात्तत्वम् । वसूनां निदित्यनुवृत्तौ शृसृस्निहित्रप्यसिवसिहनिक्लिदिबंधिमनिभ्यश्च (उ १-११) इत्युप्रत्ययः । नित्त्वादाद्युदात्तः । इरज्यति । कंड्वादिष्विरिङ् ईर्ष्यायाम् । अत्रैश्वर्यार्थः । कंड्वादिभ्यो यक् (पा ३-१-२७) प्रत्ययस्वरेणोदात्तः । पंचपचि व्यक्तीकरणे । पंचेश्चेति कनिन् । नित्त्वादाद्युदात्तः । क्षितीनां प्रातिपदिकस्वरेणांतोदात्तः । नामन्यतरस्यामिति विभक्तेरुदात्तत्वं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४