इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः ।
अ॒स्माक॑मस्तु॒ केव॑लः ॥
इन्द्र॑म् । वः॒ । वि॒श्वतः॑ । परि॑ । हवा॑महे । जने॑भ्यः ।
अ॒स्माक॑म् । अ॒स्तु॒ । केव॑लः ॥
आश्विनं शंसिष्यन्निंद्रं वो विश्वतस्परीति जुहुयात् । संस्थितेष्वाश्विनाय स्तुवत इति खंडे बण्महा असि सूर्येति द्वाभ्यामिंद्रं वो विश्वतस्परि (आ ६-५) इति सूत्रितं ॥ चतुर्विंशेऽहनि प्रातः सवने ब्राह्मणाच्छंसिन इंद्रं वो विश्वतस्परीत्यारंभणीया । चतुर्विंश इत्युपक्रम्य ऋजुनीती नो वरुण इंद्रं वो विश्वतस्परि आ ७-२ । इति सूत्रितं ॥ १० ॥