मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८, ऋक् १

संहिता

एन्द्र॑ सान॒सिं र॒यिं स॒जित्वा॑नं सदा॒सह॑म् ।
वर्षि॑ष्ठमू॒तये॑ भर ॥

पदपाठः

आ । इ॒न्द्र॒ । सा॒न॒सिम् । र॒यिम् । स॒ऽजित्वा॑नम् । स॒दा॒ऽसह॑म् ।
वर्षि॑ष्ठम् । ऊ॒तये॑ । भ॒र॒ ॥

सायणभाष्यम्

हे इंद्र ऊतयेऽस्मद्रक्षार्थं रयिं धनमा भर । अहर । कीदृशं रयिंसानसिं संभजनीयं सजित्वानं समानशत्रुजयशीलम् । धनेन हि शूरान्छृत्यान्सेंपाद्य शत्रवो जीयंते । सदासदं सर्वदा शत्रूणामभिभवहेतुं वर्षिष्ठं अतिशयेन वृद्धम् । प्रभूतमित्यर्थः ॥ सानसि । वन षण संभक्तावित्यस्मादसिप्रत्ययॊवृद्धिरंतोदात्तत्वं च सानसिधर्णसीत्यादिना । उ ४ । १०७ । निपात्यते । रयिम् । प्राति । पदिकस्वरेणांतोदात्तः । सजित्वानम् । समानानरीञ्जेतुं शीलमस्य । अन्येभ्योऽपि दृश्यंते (पा ३-२-७५) इति क्वनिप् । उपपदसमासः । समानस्य च्छंदस्यमूर्धप्रभृत्युदर्केषु (पा ६-२-८४) इति समानस्य सभावः । कृदुत्तरपदप्रकृतिस्वरेण धातुस्वर एव शिष्यते । वर्षिष्ठम् । वृद्धशब्दादशिशायने तमबिष्ठनौ (पा ५-३-५५) इतीष्ठन् प्रियस्थिरेत्यादिना (पा ६-४-१५७) वृद्धशब्दस्य वर्षादेशः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । ऊतये । उदात्त इत्यनुवृत्तावूतियूतिजुूतिसातीत्यादिना क्तिन्नुदातो प्राग्धातोः । पा । १-४-८० । इति धातोः प्राक्प्रयोक्तव्यस्याङो व्यवहिताश्च (पा १-४-८२) इति छंदसि व्यवहितप्रयोगः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५