मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८, ऋक् ३

संहिता

इन्द्र॒ त्वोता॑स॒ आ व॒यं वज्रं॑ घ॒ना द॑दीमहि ।
जये॑म॒ सं यु॒धि स्पृधः॑ ॥

पदपाठः

इन्द्र॑ । त्वाऽऊ॑तासः । आ । व॒यम् । वज्र॑म् । घ॒ना । द॒दी॒म॒हि॒ ।
जये॑म । सम् । यु॒धि । स्पृधः॑ ॥

सायणभाष्यम्

हे इंद्र त्वोतासस्त्वया पालिता वयं घना घनं शत्रुप्रहरणायात्यंतः दृढं वज्रमायुधमा ददीमहि । स्वीकुर्मः । तेन च वज्रेण युधि युद्धे स्पृधः स्पर्धमानांच्छत्रून्सं जयेम ॥ त्वोतासः । उक्तम् । वज्रम् । वज व्रज गतौ । ऋज्रेंद्राग्रेत्यादिना रन्प्रत्ययांतो निपातः । घन । घनः काठिन्यम् । तदस्यास्तीत्यर्श आदित्वादच् (पा ५-२-१२७) चित्त्वादंतोदात्तः । सुपां सुलुगिति डादेशः । ददीमहि डुदाञ् दाने प्रार्थनायां लिङ् । क्रियाफलस्य कर्तृगामित्वात्स्वरितञितः (पा १-३-७२) इत्यात्मनेपदोत्तमपुरुषबहुवचनं महिङ् । जुहोत्यादित्वाच्छपः श्लुः पा २-४-७५ । श्लौ । पा ६-१-१० इति द्विर्भावः । लिङः सलोपोऽनंत्यस्य (पा ७-२-७९) इति सलोपः । श्नाभ्यस्तयोरातः (पा ६-४-११२) इत्याकारलोपः । जयेम । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वराद्धातुस्वर एव शिष्यते । छंदसि परेऽपि (पा १-४-८१) इति समः परः प्रयोगः । युधि । युध संप्रहारे । संपदादित्वाद्भावे क्विप् । पा ३-३-१०८-९ । सावेकाच इति विभक्तेरुदात्तत्वम् । स्पर्धंत इति स्पृधः । स्पर्ध संघर्षे । क्विप्च (पा ३-२-७६) इति क्विप् । बहुलं छंदसीति रेफस्य संप्रसारणमृकारः । अकारलोपश्च ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५