मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८, ऋक् ४

संहिता

व॒यं शूरे॑भि॒रस्तृ॑भि॒रिन्द्र॒ त्वया॑ यु॒जा व॒यम् ।
सा॒स॒ह्याम॑ पृतन्य॒तः ॥

पदपाठः

व॒यम् । शूरे॑भिः । अस्तृ॑ऽभिः । इन्द्र॑ । त्वया॑ । यु॒जा । व॒यम् ।
सा॒स॒ह्याम॑ । पृ॒त॒न्य॒तः ॥

सायणभाष्यम्

वयं कर्मानुष्ठातारः शूरेभिः शौर्ययुक्तैरस्तृभिरायुधानां प्रक्षेप्तृभिर्भटैः संयुज्येमहीति शेषः । हे इंद्र तादृशा भटसहिता वयं युजा सहायभूतेन त्वया पृतन्यतः सेनामिच्छतः शत्रून्सासहाृम । अतिशयेनाभिभवेम ॥ शूरेभिः । शु श्रु गतौ । क्रन्नित्यनुवृत्तौ शुषिचिमीनां दीर्घश्च (उ २-२५) इति क्रन् । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तत्वम् । बहुलं छंदसीत्यैसो निषिद्धत्वाद्बहुवचने झल्येदित्येवम् । सहयोगे तृतीयाबलाद्वयमित्यस्मत्पदसमभिव्याहाराच्च वयं संयुज्येमहीति गम्यम् । विनापि सहशब्देन वृद्धो यूना (पा १-२-६५) इति निपातनादिति ह्युक्तम् (पा २-३-१९) अस्तृभिः । शस्त्रास्त्रप्रक्षेपणशीलैः । तद्धर्मभिस्तत्साधुकारिभिर्वा । असु क्षेपणे । तृन् (पा ३-२-१३५) इति शाच्छील्यादिषु तृन् । नित्त्वादाद्युदात्तः । रधादिभ्यश्च (पा ७-२-४५) इति विकल्पविधानादयं पक्ष इडभावः । त्वया । युष्यसिभ्यां मदिक् (उ १-१३८) कित्त्वाद्गुणाभावः । युष्मदः प्रत्यय स्वरेणाकार उदात्तः । तृतीयैकवचनं टा (पा ४-१-२) त्वमावेकवचने (पा ७-२-९७) इति मपर्यंतस्य त्वादेशः । अतो गुणे (पा ६-१-९७) इति पररूपत्वम् । एकादेश उदात्तेनोदात्त इत्युदात्तः । युजा । अंचुयुजिक्रुंचां च (पा ३-२-५९) इति क्विन् । सावेकाच इति विभक्तेरुदात्तत्वम् । सासह्याम । भृशं पुनः पुनः सहेमहि । षह मर्षणे । धात्वादेः षः सः । धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (पा ३-१-२२) यङोऽपि च (पा २-४-७४) इति लुक् सन्यङोः (पा ६-१-९) इति द्विर्भावः । हलादिशेषः (पा ७-४-६०) दीर्घोऽकितः (पा ७-४-८३) इति दीर्घः । प्रार्थनायां लिङ् । चर्करीतं परस्मैपदमदादिवच्च द्रष्टव्यमिति परस्मैपदोत्तमपुरुषबहुवचनं मस् । कर्तरि शप् । अदादिवद्भावाल्लुक् । नित्यं ङितः (पा ३-४-९९) इत्यंत्यसकारलोपः । यासुट् परस्मैपदेषूदात्तो ङिच्च (पा ३-४-१०३) इति यासुट् । लिङः सलोपोऽनंत्यस्य (पा ७-२-७९) इति सकारलोपः । सति शिष्टत्वाद्यासुट एवोदात्तत्वं शिष्यते । पादादित्वान्न निघातः । पृतन्यतः । योद्धुं पृतनामात्मन इच्छतः । सुप आत्मनः क्यजिन क्यच् । सनाद्यंता धातवः (पा ३-१-३२) इति धातुसंज्ञायां सुपो धातुप्रातिपदिकयोः (पा २-४-७१) इति सुपो लुक् । क्यचि च (पा ७-४-३३) इत्यनुवृत्तौ कव्यध्वरपृतनस्यर्चि लोपः (पा ७-४-३९) इत्याकारलोपः । पृतन्यधातुश्चित्त्वादंतोदात्तः । उपरि लटः शत्रादेशः । कर्तरि शप् । पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेणोदात्तेन सहेकादेश उदात्तेनोदात्त इति पृतन्यच्छब्दोंऽतोदात्तः । शसः सुप्स्वरेणानुदात्तस्यांतोदात्तादित्यनुवृत्तौ शतुरनुमो नद्यजादी (पा ६-१-१७३) इत्युदात्तत्तं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५