मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८, ऋक् ५

संहिता

म॒हाँ इन्द्रः॑ प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑ ।
द्यौर्न प्र॑थि॒ना शवः॑ ॥

पदपाठः

म॒हान् । इन्द्रः॑ । प॒रः । च॒ । नु । म॒हि॒ऽत्वम् । अ॒स्तु॒ । व॒ज्रिणे॑ ।
द्यौः । न । प्र॒थि॒ना । शवः॑ ॥

सायणभाष्यम्

अयमिंद्रो महान् शरीरेण प्रौढः परश्च गुणैरुत्कृष्टोऽपि । नु किंच वज्रिणे वज्रयुक्तायेंद्राय महित्वं पूर्वोक्तं द्विविधमाधिक्यं सर्वदास्तु । स्वभावसिद्धस्यापि भक्त्या प्रार्थनमेतत् । किंच । द्यौर्न द्युलोक इव शवो बलमिंद्रस्य सेनारूपं प्रथिना प्रथिम्ना पृथुत्वेन युज्यतामिति शेषः । यथा द्युलोकः प्रभूत एवमस्य सेना प्रभूता । नुशब्दो यद्यपि क्षिप्रनामसु नु मक्ष्विति पठितस्तथाप्यत्र तस्यान्वयाभावान्निपातत्वेनानेकार्थत्वसंभवाच्च समुच्चयार्थोऽत्र गृहीतः । नुशब्दो लोके प्रतिषेदार्थ एव । स्वाध्याये तु प्रतिषेधार्थ उपमानार्थश्चेति द्विविधः । येन पदेनान्वीयते तस्मात्पूर्वं प्रयुज्यमानः प्रतिषेधार्थ उपरिष्वात्प्रयुज्यमान उपमार्थः । तथा च यास्क उदाहरति । उभयमन्वध्यायं नेंद्रं देवममंसतेति प्रतिषेधार्थीयः पुरस्तादुपाचारस्तस्य यत्प्रतिषेधति । दुर्मदासो न सुरायामित्युपमार्थीय उपरिष्वादुपाचारस्तस्य येनोपमिमीते (नि १-४) इति । अत्रोपमेयवाचिनो द्युशब्दस्यापि प्रयुक्तत्वादुपमार्थः स्वीकृतः । अष्टाविंशतिसंख्याकेषु बलनामस्वोजः पाजः शव इति पठितं ॥ महानिति नकारस्य संहितायां दीर्घादट समानपादे (पा ८-३-९) इति रुत्वम् । आतोऽट नित्यम् (पा ८-३-३) इति पूर्वस्याकारस्यानुनासिकः । भोभगोअघोअपूर्वस्य योऽशि । पा ८-१७ । इति यकारः । तस्य लोपः (पा ८-३-१९) तस्यासिद्धत्वात् (पा ८-२-१) स्वरसंधिर्न भवति । महेरिन् (उ ४-११७) इत्यौणादिक इन् । महेर्भावो महित्वम् । त्व इति प्रत्ययस्वरेणोदात्तः । स एव शिष्यते । वज्रिणे । इकारः प्रत्ययस्वरेणोदात्तः । द्यौः । द्योशब्दः प्रातिपदिकस्वरेणांतोदात्तः । गोतोणित् (पा ७-१-९०) इति विभक्तेर्णित्त्वादचो ञ्णिति (पा ७-२-११५) इति वृद्धिरांतरतम्यादुदात्तैव भवति । प्रथिना । प्रथिम्ना । पृथोर्भाव इत्यर्थे पृथ्वादिभ्य इमनिज्वा (पा ५-१-१२२) इतीमनिच् । र ऋतो हलादेर्लघोः (पा ६-४-१६१) इति ऋकारस्य रभावः । तुरिष्ठेमेयःसु (पा ६-४-१५४) इत्यनुवृत्तौ टीः (पा ६-४-१५५) इति टलोपः । प्रथिमन्शब्दश्चित्त्वादंतोदात्तः । तृतीयै कवचने भत्वादल्लोपोऽनः (पा ६-४-१३४) इत्यकारलोपः । छांदसो मकारलोपः । अनुदात्तस्य च यत्रोदात्तलोप इति विभक्तेरुदात्तत्वम् । शवः । नब्विषयस्यानिसंतस्येत्याद्युदात्तत्वं ॥ १५ ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५