मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८, ऋक् ६

संहिता

स॒मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ ।
विप्रा॑सो वा धिया॒यवः॑ ॥

पदपाठः

स॒म्ऽओ॒हे । वा॒ । ये । आश॑त । नरः॑ । तो॒कस्य॑ । सनि॑तौ ।
विप्रा॑सः । वा॒ । धि॒या॒ऽयवः॑ ॥

सायणभाष्यम्

ये नरः पुरुषाः समोहे संग्रामे तोकस्यापत्यस्य सनितौ वा लाभे वाशत । व्याप्तवंतः । इंद्रं स्तुत्येति शेषः । वा अथवा विप्रासो मेधाविनो धियायवः प्रज्ञाकामाः संत आशत ते सर्वे लभंत इत्यध्याहारः । रण इत्यादिषु षट्चत्वारिंशत्संग्रामनामसु समोहे समिथ इति पठितम् । पंचदशस्वपत्यनामसु तुक् तोकमिति पठितं ॥ समोहे । प्रातिपदिकांतोदात्तत्वम् । वा चादयोऽनुदात्त इत्यनुदात्तः । अशत । अशू व्याप्तौ । छांदसश्च्लेर्लोपः । आडागम उदात्तः (पा ६-४-७२) सति शिष्टत्वेन स एव शिष्यते । नरः । प्रातिपदिकस्वरः । सनितौ । स्त्रियां क्तिन् । तितुत्रेष्वग्रहादीनामिति वचनात् । पा ७-२-९-१ । निगृहीतिर्निपठितिरितिवदिडाागमः । विप्रासः । ऋच्रेंद्रेत्यादिना विप्रशब्दो रन्प्रत्ययांतो निपातितः । धियायुवः । धि धारणे । धीयते धार्यतेऽवबुद्ध्यते श्रुतमर्थजातमनयेति धिया प्रज्ञा । तामात्मन इच्छंतीति क्यच् । क्याच्छंदसि (पा ३-२-१७०) इत्युप्रत्ययः । अतो लोपः । प्रत्ययस्वरेणांतोदात्तः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६