मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८, ऋक् ९

संहिता

ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते ।
स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑ ॥

पदपाठः

ए॒व । हि । ते॒ । विऽभू॑तयः । ऊ॒तयः॑ । इ॒न्द्र॒ । माऽव॑ते ।
स॒द्यः । चि॒त् । सन्ति॑ । दा॒शुषे॑ ॥

सायणभाष्यम्

हे इंद्र ते तव विभूतय ऐश्वर्यविशेषा एवा हि एवं विधाः खलु । किं विधा इति तदुच्यते । मावते मत्सदृशाय दाशुषे हविर्दत्तवते यजमानायोतयस्त्वदीयरक्षारूपाः सद्यश्चित्संति । यदा कर्मानुष्ठितं तदैव भवंति ॥ मावते । मत्सदृशाय । वतुप्प्रकरणे युष्मदस्मद्भ्यां छंदसि सादृश्य उपसंख्यानम् । पा ५-२-३९-१ । इत्यस्मच्छब्दाद्वतुप् । मपर्यंतस्य प्रत्ययोत्तरपदयोश्च । पा ७-२-९८ इति मादेशः । अद् शब्देन सहातो गुणे (पा ६-१-९७) इति पररूपत्वम् । दृग्दृश वतुषु (पा ६-३-८९) इत्यनुवृत्तावा सर्वनाम्नः (पा ६-३-९१) इति दकारस्याकारः । सवर्णदीर्घत्वम् । वतुपः पित्त्वात्प्रातिपदिकस्वर एव शिष्यते । सद्यः । समाने द्यवीत्यर्थे सद्यः परुत्परार्यैषमः (पा ५-३-२२) इत्यादिना निपातितम् । प्रत्ययस्वरेणांतोदात्तत्वम् । चित् । चादयोऽनुदात्ता इत्यनुदात्तः । संति । अस भुवि । लटः स्थाने झि । झोंतः (पा ७-१-३) अदिप्रभृतिभ्यः शप इति शपो लुक् । तिङः प्रत्ययाद्युदात्तत्वम् । प्रत्ययलोपे प्रत्ययलक्षणम् (पा १-१-६२) इति शबकारमाश्रित्य लसार्वधातुकानुदात्तत्वं न भवति । वर्णाश्रयविधौ प्रत्ययलक्षणं नास्ति । परि २१ । इति निषेधात् । दाशुषे । गतमंत्रे गतं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६